Loading...
ऋग्वेद मण्डल - 10 के सूक्त 116 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 116/ मन्त्र 2
    ऋषिः - अग्नियुतः स्थौरोऽग्नियूपो वा स्थौरः देवता - इन्द्र: छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    अ॒स्य पि॑ब क्षु॒मत॒: प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ । स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ॥

    स्वर सहित पद पाठ

    अ॒स्य । पि॒ब॒ । क्षु॒ऽमतः॑ । प्रऽस्थि॑तस्य । इन्द्र॑ । सोम॑स्य । वर॑म् । आ । सु॒तस्य॑ । स्व॒स्ति॒ऽदाः । मन॑सा । मा॒द॒य॒स्व॒ । अ॒र्वा॒ची॒नः । रे॒वते॑ । सौभ॑गाय ॥


    स्वर रहित मन्त्र

    अस्य पिब क्षुमत: प्रस्थितस्येन्द्र सोमस्य वरमा सुतस्य । स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय ॥

    स्वर रहित पद पाठ

    अस्य । पिब । क्षुऽमतः । प्रऽस्थितस्य । इन्द्र । सोमस्य । वरम् । आ । सुतस्य । स्वस्तिऽदाः । मनसा । मादयस्व । अर्वाचीनः । रेवते । सौभगाय ॥ १०.११६.२

    ऋग्वेद - मण्डल » 10; सूक्त » 116; मन्त्र » 2
    अष्टक » 8; अध्याय » 6; वर्ग » 20; मन्त्र » 2

    पदार्थः -
    (इन्द्र) हे राजन् ! आत्मन् ! वा (अस्य क्षुमतः-प्रस्थितस्य सोमस्य) अस्य प्रशस्तान्नस्य “क्षुमत्-अन्ननाम” [निघ० २।७] समर्पितस्य निष्पन्नस्य सोमस्यौषधिभूतस्य (वरम्-आ पिब) वरणीयं रसं पिब गृहाण वा (स्वस्तिदा-अर्वाचीनः) कल्याणदाता-अस्मदभिमुखः सन् (रेवते सौभगाय) पुष्टिमते “रयिः पुष्टिः” [जै० १।२४] सौभाग्याय (मनसा-मादयस्व) मनसा तृप्तो भव “मद तृप्तियोगे” [चुरादि०] ॥२॥

    इस भाष्य को एडिट करें
    Top