Loading...
ऋग्वेद मण्डल - 10 के सूक्त 116 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 116/ मन्त्र 3
    ऋषिः - अग्नियुतः स्थौरोऽग्नियूपो वा स्थौरः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इन्द्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु । म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ॥

    स्वर सहित पद पाठ

    म॒मत्तु॑ । त्वा॒ । दि॒व्यः । सोमः॑ । इ॒न्द्र॒ । म॒मत्तु॑ । यः । सू॒यते॑ । पार्थि॑वेषु । म॒मत्तु॑ । येन॑ । वरि॑ऽवः । च॒कर्थ॑ । म॒मत्तु॑ । येन॑ । नि॒ऽरि॒णासि॑ । शत्रू॑न् ॥


    स्वर रहित मन्त्र

    ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते पार्थिवेषु । ममत्तु येन वरिवश्चकर्थ ममत्तु येन निरिणासि शत्रून् ॥

    स्वर रहित पद पाठ

    ममत्तु । त्वा । दिव्यः । सोमः । इन्द्र । ममत्तु । यः । सूयते । पार्थिवेषु । ममत्तु । येन । वरिऽवः । चकर्थ । ममत्तु । येन । निऽरिणासि । शत्रून् ॥ १०.११६.३

    ऋग्वेद - मण्डल » 10; सूक्त » 116; मन्त्र » 3
    अष्टक » 8; अध्याय » 6; वर्ग » 20; मन्त्र » 3

    पदार्थः -
    (इन्द्र) हे राजन् ! आत्मन् ! वा (त्वा) त्वां (दिव्यः सोमः-ममत्तु) दिवि-आकाशे भवः सोमश्चन्द्रः-हर्षयतु “श्लुश्छान्दसः” (यः पार्थिवेषु सूयते-ममत्तु यश्च सोमः पार्थिवेषु पृथिवीविकारेषु पृथिवीमयेषु पाषाणेषु खल्वभिषूयते सः ओषधिरूपः सोमो हर्षयतु (येन वरिवः-चकर्थ स ममत्तु) येन सोमेन राज्यैश्वर्येण स्वात्मानं वरिवस्वन्तं धनवन्तं च करोषि “वरिवः-धननाम” [निघ० २।१०] ‘मतुब्लोपश्छान्दसः’ स हर्षयतु (येन शत्रून्-निरिणासि ममत्तु) येन सोमेन रेतसा “रेतो वै सोमः” [जै० ३।२४] शत्रून् निगमयसि निम्नान् करोषि “रिणाति गतिकर्मा” [निघ० २।२४] ॥३॥

    इस भाष्य को एडिट करें
    Top