Loading...
ऋग्वेद मण्डल - 10 के सूक्त 119 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 119/ मन्त्र 1
    ऋषिः - लबः ऐन्द्रः देवता - आत्मस्तुतिः छन्दः - गायत्री स्वरः - षड्जः

    इति॒ वा इति॑ मे॒ मनो॒ गामश्वं॑ सनुया॒मिति॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥

    स्वर सहित पद पाठ

    इति॑ । वै । इति॑ । मे॒ । मनः॑ । गाम् । अश्व॑म् । स॒नु॒या॒म् । इति॑ । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥


    स्वर रहित मन्त्र

    इति वा इति मे मनो गामश्वं सनुयामिति । कुवित्सोमस्यापामिति ॥

    स्वर रहित पद पाठ

    इति । वै । इति । मे । मनः । गाम् । अश्वम् । सनुयाम् । इति । कुवित् । सोमस्य । अपाम् । इति ॥ १०.११९.१

    ऋग्वेद - मण्डल » 10; सूक्त » 119; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 26; मन्त्र » 1

    पदार्थः -
    (इति वै-इति) इति-एवं वै खल्वेवं (मे मनः) मम मनोऽस्ति (गाम्-अश्वं-सनुयाम-इति) गाम्, अथाश्वं यश्च मम पार्श्वे तं सर्वं बहुमूल्यं पदार्थं दद्याम् “षणु दाने” [तनादि०] कुत एवमाकाङ्क्षा जाता, यतः (सोमस्य कुवित्-अपाम्-इति) सोमस्य परमात्मन आनन्दरसं बहु पीतवान् “कुवित्-बहुनाम” [निघ० ३।१] इति हेतोर्नैतेषां सङ्ग्रहोऽपेक्ष्यते ॥१॥

    इस भाष्य को एडिट करें
    Top