ऋग्वेद - मण्डल 10/ सूक्त 119/ मन्त्र 2
प्र वाता॑ इव॒ दोध॑त॒ उन्मा॑ पी॒ता अ॑यंसत । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
स्वर सहित पद पाठप्र । वाताः॑ऽइव । दोध॑तः । उत् । मा॒ । पी॒ताः । अ॒यं॒स॒त॒ । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥
स्वर रहित मन्त्र
प्र वाता इव दोधत उन्मा पीता अयंसत । कुवित्सोमस्यापामिति ॥
स्वर रहित पद पाठप्र । वाताःऽइव । दोधतः । उत् । मा । पीताः । अयंसत । कुवित् । सोमस्य । अपाम् । इति ॥ १०.११९.२
ऋग्वेद - मण्डल » 10; सूक्त » 119; मन्त्र » 2
अष्टक » 8; अध्याय » 6; वर्ग » 26; मन्त्र » 2
अष्टक » 8; अध्याय » 6; वर्ग » 26; मन्त्र » 2
पदार्थः -
(वाताः-इव प्र दोधतः-मा-उत्-अयंसत) वाताः-प्रबलवायवः कम्पयितार इव पीताः परमात्मानन्दरसाः मां निम्नस्थानाद् उद्यच्छन्ति-उच्चं नयन्ति यतः (कुवित् सोमस्य अपाम् इति) पूर्ववत् ॥२॥