ऋग्वेद - मण्डल 10/ सूक्त 119/ मन्त्र 12
अ॒हम॑स्मि महाम॒हो॑ऽभिन॒भ्यमुदी॑षितः । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
स्वर सहित पद पाठअ॒हम् । अ॒स्मि॒ । म॒हा॒ऽम॒हः । अ॒भि॒ऽन॒भ्यम् । उ॒त्ऽई॑षितः । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥
स्वर रहित मन्त्र
अहमस्मि महामहोऽभिनभ्यमुदीषितः । कुवित्सोमस्यापामिति ॥
स्वर रहित पद पाठअहम् । अस्मि । महाऽमहः । अभिऽनभ्यम् । उत्ऽईषितः । कुवित् । सोमस्य । अपाम् । इति ॥ १०.११९.१२
ऋग्वेद - मण्डल » 10; सूक्त » 119; मन्त्र » 12
अष्टक » 8; अध्याय » 6; वर्ग » 27; मन्त्र » 6
अष्टक » 8; अध्याय » 6; वर्ग » 27; मन्त्र » 6
पदार्थः -
(अहं महामहः-अभिनभ्यम्-उदीषितः) अहं नभ्यमन्तरिक्षमभि खलूदयं गतः सूर्य इव मोक्षेऽभिभवामि “प्राण-एव महः” [गो० १।५।१५] महाप्राणः सन् संसारेऽभि भवामि ॥१२॥