ऋग्वेद - मण्डल 10/ सूक्त 119/ मन्त्र 5
अ॒हं तष्टे॑व व॒न्धुरं॒ पर्य॑चामि हृ॒दा म॒तिम् । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
स्वर सहित पद पाठअ॒हम् । तष्टा॑ऽइव । व॒न्धुर॑म् । परि॑ । अ॒चा॒मि॒ । हृ॒दा । म॒तिम् । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥
स्वर रहित मन्त्र
अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम् । कुवित्सोमस्यापामिति ॥
स्वर रहित पद पाठअहम् । तष्टाऽइव । वन्धुरम् । परि । अचामि । हृदा । मतिम् । कुवित् । सोमस्य । अपाम् । इति ॥ १०.११९.५
ऋग्वेद - मण्डल » 10; सूक्त » 119; मन्त्र » 5
अष्टक » 8; अध्याय » 6; वर्ग » 26; मन्त्र » 5
अष्टक » 8; अध्याय » 6; वर्ग » 26; मन्त्र » 5
पदार्थः -
(तष्टा-इव बन्धुरम्-अहं हृदा मतिं-परि-अचामि) तष्टा-तक्षकः शिल्पी वा यथा रथिनो निषदनस्थानं परितः साधयति तद्वदहं हृदयेन मतिं-मानसिकशक्तिं परितः साधयामि (कुवित्…) पूर्ववत् ॥५॥