ऋग्वेद - मण्डल 10/ सूक्त 119/ मन्त्र 4
उप॑ मा म॒तिर॑स्थित वा॒श्रा पु॒त्रमि॑व प्रि॒यम् । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
स्वर सहित पद पाठउप॑ । मा । म॒तिः । अ॒स्थि॒त॒ । वा॒श्रा । पु॒त्रम्ऽइ॑व । प्रि॒यम् । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥
स्वर रहित मन्त्र
उप मा मतिरस्थित वाश्रा पुत्रमिव प्रियम् । कुवित्सोमस्यापामिति ॥
स्वर रहित पद पाठउप । मा । मतिः । अस्थित । वाश्रा । पुत्रम्ऽइव । प्रियम् । कुवित् । सोमस्य । अपाम् । इति ॥ १०.११९.४
ऋग्वेद - मण्डल » 10; सूक्त » 119; मन्त्र » 4
अष्टक » 8; अध्याय » 6; वर्ग » 26; मन्त्र » 4
अष्टक » 8; अध्याय » 6; वर्ग » 26; मन्त्र » 4
पदार्थः -
(मा मतिः-उप-अस्थित) मां मतिरुपतिष्ठते मन्त्रकरणाय मननाय (वाश्रा-प्रियं पुत्रम्-इव) कामयमाना माता प्रियं पुत्रमुपतिष्ठते तद्वत् (कुवित्०) पूर्ववत् ॥४॥