Loading...
ऋग्वेद मण्डल - 10 के सूक्त 121 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 121/ मन्त्र 2
    ऋषिः - हिरण्यगर्भः प्राजापत्यः देवता - कः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

    स्वर सहित पद पाठ

    यः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः । यस्य॑ । छा॒याम् । ऋत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥


    स्वर रहित मन्त्र

    य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥

    स्वर रहित पद पाठ

    यः । आत्मऽदाः । बलऽदाः । यस्य । विश्वे । उपऽआसते । प्रऽशिषम् । यस्य । देवाः । यस्य । छायाम् । ऋतम् । यस्य । मृत्युः । कस्मै । देवाय । हविषा । विधेम ॥ १०.१२१.२

    ऋग्वेद - मण्डल » 10; सूक्त » 121; मन्त्र » 2
    अष्टक » 8; अध्याय » 7; वर्ग » 3; मन्त्र » 2

    पदार्थः -
    (यः-आत्मदाः-बलदाः) य आत्मत्वस्य-आत्मबोधस्य दाता बलस्य च दाता स्वसङ्गत्या, (यस्य प्रशिषं विश्वे-उपासते) यस्य प्रशासनं सर्वे साधारणा जनाः सेवन्ते (यस्य देवाः) यस्य प्रशासनं विशिष्टा विद्वांसश्च सेवन्ते-आचरन्ति (यस्य छाया-अमृतम्) यस्य छाया-आश्रयोऽमृतम् (यस्य मृत्युः) यस्य ‘अच्छाया’ ‘सामर्थ्यात्’ मृत्युर्नाशोऽस्ति (कस्मै देवाय हविषा-विधेम) पूर्ववत् ॥२॥

    इस भाष्य को एडिट करें
    Top