Loading...
ऋग्वेद मण्डल - 10 के सूक्त 121 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 121/ मन्त्र 1
    ऋषिः - हिरण्यगर्भः प्राजापत्यः देवता - कः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

    स्वर सहित पद पाठ

    हि॒र॒ण्य॒ऽग॒र्भः । सम् । अ॒व॒र्त॒त॒ । अग्रे॑ । भू॒तस्य॑ । जा॒तः । पतिः॑ । एकः॑ । आ॒सी॒त् । सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥


    स्वर रहित मन्त्र

    हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥

    स्वर रहित पद पाठ

    हिरण्यऽगर्भः । सम् । अवर्तत । अग्रे । भूतस्य । जातः । पतिः । एकः । आसीत् । सः । दाधार । पृथिवीम् । द्याम् । उत । इमाम् । कस्मै । देवाय । हविषा । विधेम ॥ १०.१२१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 121; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 3; मन्त्र » 1

    पदार्थः -
    (हिरण्यगर्भः) हिरण्यः-हिरण्यमयः “हिरण्यो हिरण्यमयो” [निरु० १०।२३] “मयट्प्रत्ययस्य लोपश्छान्दसः” हिरण्याः प्रकाशमयाः-सूर्यादयो गर्भे-गर्भसदृशे मध्येऽस्य स हिरण्यगर्भः-“हिरण्यानि सूर्यादि तेजांसि गर्भे यस्य स परमात्मा” [यजु० २५।१० दयानन्दः] स परमात्मा (भूतस्य जातः-एकः पतिः-आसीत्) उत्पन्नस्य जगतः प्रसिद्ध एक-एव स्वामी पालकोऽस्ति सः (अग्रे सम् अवर्तत) जगतः पूर्वमेव सम्यग् वर्त्तते वर्त्तमानो भवति हि (सः पृथिवीं द्याम्-उत-इमां दाधार) स खल्वन्तरिक्षम् “पृथिवी-अन्तरिक्षनाम” [निघ० १।३] द्युलोकमपि चेमां पृथिवीं धारयति (कस्मै देवाय हविषा विधेम) सुखस्वरूपाय प्रजापतये परमात्मने “प्रजापतिर्वैः कः” [ऐ० २।३७] “सुखं वै कः” [गो० उ० ६।३] उपहाररूपेण स्वात्मानं समर्पयेम ॥१॥

    इस भाष्य को एडिट करें
    Top