ऋग्वेद - मण्डल 10/ सूक्त 122/ मन्त्र 2
जु॒षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो । घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तम् ॥
स्वर सहित पद पाठजु॒षा॒णः । अ॒ग्ने॒ । प्रति॑ । ह॒र्य॒ । मे॒ । वचः॑ । विश्वा॑नि । वि॒द्वान् । व॒युना॑नि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । घृत॑ऽनिर्निक् । ब्रह्म॑णे । गा॒तुम् । आ । ई॒र॒य॒ । तव॑ । दे॒वाः । अ॒ज॒न॒य॒न् । अनु॑ । व्र॒तम् ॥
स्वर रहित मन्त्र
जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान्वयुनानि सुक्रतो । घृतनिर्णिग्ब्रह्मणे गातुमेरय तव देवा अजनयन्ननु व्रतम् ॥
स्वर रहित पद पाठजुषाणः । अग्ने । प्रति । हर्य । मे । वचः । विश्वानि । विद्वान् । वयुनानि । सुक्रतो इति सुऽक्रतो । घृतऽनिर्निक् । ब्रह्मणे । गातुम् । आ । ईरय । तव । देवाः । अजनयन् । अनु । व्रतम् ॥ १०.१२२.२
ऋग्वेद - मण्डल » 10; सूक्त » 122; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 5; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 5; मन्त्र » 2
पदार्थः -
(घृतनिर्णिक्-अग्ने) स्वतेजसा स्तोतारं निर्णेक्ति शोधयति तत्सम्बुद्धौ तथाभूताग्रणेतः परमात्मन् ! (जुषाणः) प्रीयमाणस्त्वं (मे वचः प्रति हर्य) मम प्रार्थनावचनं प्रतिकामयस्व-प्रतिपूरय (सुक्रतो विश्वानि वयुनानि विद्वान्) हे सुप्रज्ञान ! “क्रतुः प्रज्ञानाम” [निघ० ३।१] सर्वाणि प्रज्ञातव्यानि जानन् सन् वर्तसे (ब्रह्मणे-गातुम्-एरय) ब्राह्मणाय स्वोपासकाय सन्मार्गे प्रेरयसि (तव व्रतम् अनु देवाः-अजनयन्) तव नियममनुसरन्तो विद्वांसः स्वात्मानं-सफलं जनयन्ति-कुर्वन्ति ॥२॥