Loading...
ऋग्वेद मण्डल - 10 के सूक्त 122 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 122/ मन्त्र 8
    ऋषिः - चित्रमहा वासिष्ठः देवता - अग्निः छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    नि त्वा॒ वसि॑ष्ठा अह्वन्त वा॒जिनं॑ गृ॒णन्तो॑ अग्ने वि॒दथे॑षु वे॒धस॑: । रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

    स्वर सहित पद पाठ

    नि । त्वा॒ । वसि॑ष्ठाः । अ॒ह्व॒न्त॒ । वा॒जिन॑म् । गृ॒णन्तः॑ । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ । रा॒यः । पोष॑म् । यज॑मानेषु । धा॒र॒य॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥


    स्वर रहित मन्त्र

    नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधस: । रायस्पोषं यजमानेषु धारय यूयं पात स्वस्तिभि: सदा नः ॥

    स्वर रहित पद पाठ

    नि । त्वा । वसिष्ठाः । अह्वन्त । वाजिनम् । गृणन्तः । अग्ने । विदथेषु । वेधसः । रायः । पोषम् । यजमानेषु । धारय । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ १०.१२२.८

    ऋग्वेद - मण्डल » 10; सूक्त » 122; मन्त्र » 8
    अष्टक » 8; अध्याय » 7; वर्ग » 6; मन्त्र » 3

    पदार्थः -
    (अग्ने) हे परमात्मन् ! (वसिष्ठाः) त्वयि-अतिशयेन वसितार उपासकाः (वेधसः) मेधाविनः “वेधसः मेधाविनाम” [निघ० ३।१५] (विदथेषु) वेदनेषु अनुभवनीयाध्यात्मप्रसङ्गेषु (त्वां वाजिनम्) त्वाममृतान्नभोगवन्तं (गृणन्तः-अह्वयन्त) स्तुवन्तः आह्वयन्ति (यजमानेषु रायः पोषं धारय) अध्यात्मयज्ञस्य यजमानेषूपासकेषु धनस्य पोषं धारय न तु शोषं शोषकं दोषं (यूयं स्वस्तिभिः सदा नः पात) त्वम् “पूजार्थे बहुवचनम्” कल्याणकरैः सदाऽस्मान् रक्ष ॥८॥

    इस भाष्य को एडिट करें
    Top