Loading...
ऋग्वेद मण्डल - 10 के सूक्त 123 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 123/ मन्त्र 1
    ऋषिः - वेनः देवता - वेनः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ । इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥

    स्वर सहित पद पाठ

    अ॒यम् । वे॒नः । चो॒द॒य॒त् । पृश्नि॑ऽगर्भाः । ज्योतिः॑ऽजरायुः । रज॑सः । वि॒ऽमाने॑ । इ॒मम् । अ॒पाम् । स॒म्ऽग॒मे । सूर्य॑स्य । शिशु॑म् । न । विप्राः॑ । म॒तिऽभिः॑ । रि॒ह॒न्ति॒ ॥


    स्वर रहित मन्त्र

    अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥

    स्वर रहित पद पाठ

    अयम् । वेनः । चोदयत् । पृश्निऽगर्भाः । ज्योतिःऽजरायुः । रजसः । विऽमाने । इमम् । अपाम् । सम्ऽगमे । सूर्यस्य । शिशुम् । न । विप्राः । मतिऽभिः । रिहन्ति ॥ १०.१२३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 123; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 7; मन्त्र » 1

    पदार्थः -
    (अयं वेनः) एष कमनीयः परमात्मा “वेनो वेनतेः कान्तिकर्मणः” [निरु० १०।३९] “वेनात् कमनीयात् परमात्मनः” [ऋ० ४।५८।४ दयानन्दः] यद्वा इन्द्रो विद्युद्देवः “इन्द्रो वै वेनः” [कौ० ८।४] “यदशनिरिन्द्रः” [कौ० ६।९] (ज्योतिर्जरायुः) ज्योतिरस्य जरायुस्थानीयं यस्मिन् सर्वं जगद् गर्भरूपं रक्षति, मेघं रक्षति वा (रजसः-विमाने) रञ्जनात्मकस्य लोकसमूहस्य ब्रह्माण्डस्य निर्माणस्थाने महाकाशे उदकस्य निर्माणस्थानेऽन्तरिक्षे वा (पृश्निगर्भाः-चोदयत्) पृश्निः उज्ज्वलः शुभ्रो वर्णो येषां ते रश्मयो गर्भो गर्भभूता यासां ताः पृश्निगर्भाः-आपः प्रारम्भिक्यः सूक्ष्मास्ताः प्रेरयति (अपां सूर्यस्य सङ्गमे) तासां सूक्ष्माणां सूर्यस्य सङ्गमने वर्षणकाले सति (विप्राः) विद्वांसः (मतिभिः) वाग्भिः “वाग् वै मतिः” “वाचा हीदं सर्वं मनुते” [श० ८।१।२।७] (इमं शिशुं न रिहन्ति) इमं परमात्मानं विद्युद्देवं वा शंसनीयं कुमारमिव स्तुवन्ति प्रशंसन्ति वा “रिहन्ति अर्चतिकर्मा” [निघं० ३।१४] ॥१॥

    इस भाष्य को एडिट करें
    Top