ऋग्वेद - मण्डल 10/ सूक्त 126/ मन्त्र 1
ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः
देवता - विश्वेदेवा:
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
न तमंहो॒ न दु॑रि॒तं देवा॑सो अष्ट॒ मर्त्य॑म् । स॒जोष॑सो॒ यम॑र्य॒मा मि॒त्रो नय॑न्ति॒ वरु॑णो॒ अति॒ द्विष॑: ॥
स्वर सहित पद पाठन । तम् । अंहः॑ । न । दुः॒ऽइ॒तम् । देवा॑सः । अष्ट॑ । मर्त्य॑म् । स॒ऽजोष॑सः । यम् । अ॒र्य॒मा । मि॒त्रः । नय॑न्ति । वरु॑णः । अति॑ । द्विषः॑ ॥
स्वर रहित मन्त्र
न तमंहो न दुरितं देवासो अष्ट मर्त्यम् । सजोषसो यमर्यमा मित्रो नयन्ति वरुणो अति द्विष: ॥
स्वर रहित पद पाठन । तम् । अंहः । न । दुःऽइतम् । देवासः । अष्ट । मर्त्यम् । सऽजोषसः । यम् । अर्यमा । मित्रः । नयन्ति । वरुणः । अति । द्विषः ॥ १०.१२६.१
ऋग्वेद - मण्डल » 10; सूक्त » 126; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 1
विषयः - अत्र सूक्ते अध्यापकादयो विद्वांसः सूर्यादयश्च रक्षकाः सुखसम्पादका जीवनयात्रायाः परमसहायकाः सन्ति तेषां यथार्थानुष्ठानेनेत्यादयो विषयाः सन्ति।
पदार्थः -
(अर्यमा) अरीन् शत्रून् विरोधिनो नियच्छति वशीकरोति यः सः “अर्यमा-अरीन्नियच्छतीति” [निरु० ११।२३] आदित्यः, मुख्यप्राणः परमगुरुः परमात्मा (मित्रः) वायुः “अयं वै वायुर्मित्रो योऽयं पवते” [श० ६।५।४।१४] प्राणः-श्वासः “प्राणो वै मित्रः” [तै० सं० ५।३।४।२] अध्यापकः “मित्रावरुणौ-अध्यापकोपदेशकौ” [ऋ० ७।३३।१० दयानन्दः] (वरुणः) जलम् “आपो वै वरुणः” [काठ० १३।२] अपानः-प्रश्वासः “अपानो वरुणः” [श० १४।६।१।१२] उपदेशकः (सजोषसः) एते समानसेवनेन यथार्थानुष्ठानेन संसक्ताः (देवासः) देवा दिव्यधर्माणः (द्विषः-अति) द्वेष्टॄन् विरोधिनोऽतिक्रम्य (यं नयन्ति) यं जनमनुगच्छन्ति (तं मर्त्यम्) तं जनं (अंहः-न दुरितं न-अष्ट) घातकं कर्म पापम् “अंहः-हन्तेः” [निरु० ४।२५] न-प्राप्नोति न दुःखं रोगो वा प्राप्नोति “अशूङ्धातोर्लुङि छान्दसः प्रयोगः” ॥१॥