Loading...
ऋग्वेद मण्डल - 10 के सूक्त 126 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 126/ मन्त्र 2
    ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः देवता - विश्वेदेवा: छन्दः - विराड्बृहती स्वरः - मध्यमः

    तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् । येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विष॑: ॥

    स्वर सहित पद पाठ

    तत् । हि । व॒यम् । वृ॒णी॒महे॑ । वरु॑ण । मित्र॑ । अर्य॑मन् । येन॑ । निः । अंह॑सः । यू॒यम् । पा॒थ । ने॒थ । च॒ । मर्त्य॑म् । अति॑ । द्विषः॑ ॥


    स्वर रहित मन्त्र

    तद्धि वयं वृणीमहे वरुण मित्रार्यमन् । येना निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विष: ॥

    स्वर रहित पद पाठ

    तत् । हि । वयम् । वृणीमहे । वरुण । मित्र । अर्यमन् । येन । निः । अंहसः । यूयम् । पाथ । नेथ । च । मर्त्यम् । अति । द्विषः ॥ १०.१२६.२

    ऋग्वेद - मण्डल » 10; सूक्त » 126; मन्त्र » 2
    अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 2

    पदार्थः -
    (वरुण मित्र-अर्यमन्) हे पूर्वोक्त वरुण ! मित्र ! अर्यमन् ! (वयं तत्-हि वृणीमहे) वयं तदेव रक्षणं वृणुयामः (येन) येन रक्षणेन (यूयम्-मर्त्यम्-अंहसः-निः पाथ) यूयं जनं पापकर्मणः-निश्चितं रक्षथ (द्विषः-अति) द्वेष्टॄन् विरोधिनोऽतिक्रम्य परास्य (च) तथा (नेथ) नयथ ॥२॥

    इस भाष्य को एडिट करें
    Top