Loading...
ऋग्वेद मण्डल - 10 के सूक्त 126 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 126/ मन्त्र 3
    ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः देवता - विश्वेदेवा: छन्दः - विराड्बृहती स्वरः - मध्यमः

    ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विष॑: ॥

    स्वर सहित पद पाठ

    ते । नू॒नम् । नः॒ । अ॒यम् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । नयि॑ष्ठाः । ऊँ॒ इति॑ । नः॒ । ने॒षणि॑ । पर्षि॑ष्ठाः । ऊँ॒ इति॑ । नः॒ । प॒र्षणि॑ । अति॑ । द्विषः॑ ॥


    स्वर रहित मन्त्र

    ते नूनं नोऽयमूतये वरुणो मित्रो अर्यमा । नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्यति द्विष: ॥

    स्वर रहित पद पाठ

    ते । नूनम् । नः । अयम् । ऊतये । वरुणः । मित्रः । अर्यमा । नयिष्ठाः । ऊँ इति । नः । नेषणि । पर्षिष्ठाः । ऊँ इति । नः । पर्षणि । अति । द्विषः ॥ १०.१२६.३

    ऋग्वेद - मण्डल » 10; सूक्त » 126; मन्त्र » 3
    अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 3

    पदार्थः -
    (अयं वरुणः-मित्रः-अर्यमा) एष वरुणः-मित्रः-अर्यमा (ते नः-नूनम्-ऊतये) ते सर्वेऽवश्यमस्माकं रक्षायै (नः-नेषणि-उ नयिष्ठाः) अस्मान्नेतव्ये मार्गे हि नयत (नः पर्षणि-उ द्विषः-अति पर्षिष्ठाः) अस्मान्पारयितव्ये प्रापयितव्ये विषये द्वेष्टॄन्-अतिक्रम्य-परास्य पारय-पारयत ॥३॥

    इस भाष्य को एडिट करें
    Top