ऋग्वेद - मण्डल 10/ सूक्त 126/ मन्त्र 4
ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः
देवता - विश्वेदेवा:
छन्दः - विराड्बृहती
स्वरः - मध्यमः
यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विष॑: ॥
स्वर सहित पद पाठयू॒यम् । विश्व॑म् । परि॑ । पा॒थ॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । यु॒ष्माकम् । शर्म॑णि । प्रि॒ये । स्याम॑ । सु॒ऽप्र॒नी॒त॒यः॒ । अति॑ । द्विषः॑ ॥
स्वर रहित मन्त्र
यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा । युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयोऽति द्विष: ॥
स्वर रहित पद पाठयूयम् । विश्वम् । परि । पाथ । वरुणः । मित्रः । अर्यमा । युष्माकम् । शर्मणि । प्रिये । स्याम । सुऽप्रनीतयः । अति । द्विषः ॥ १०.१२६.४
ऋग्वेद - मण्डल » 10; सूक्त » 126; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 4
पदार्थः -
(वरुणः-मित्रः-अर्यमा यूयं विश्वं परि पाथ) हे वरुण ! मित्र ! अर्यमन् ! यूयं सर्वेऽस्मान् परिरक्षथ (युष्माकं प्रिये शर्मणि) युष्माकं प्रियसुखशरणे (सुप्रणीतयः) शोभनप्रणयनवन्तः-सदाचरणवन्तः (द्विषः-अति-स्याम) द्वेष्टॄन् विरोधिनोऽतिक्रम्य परास्य समर्था भवेम ॥४॥