ऋग्वेद - मण्डल 10/ सूक्त 126/ मन्त्र 5
ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः
देवता - विश्वेदेवा:
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । उ॒ग्रं म॒रुद्भी॑ रु॒द्रं हु॑वे॒मेन्द्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विष॑: ॥
स्वर सहित पद पाठआ॒दि॒त्यासः॑ । अति॑ । स्रिधः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । उ॒ग्रम् । म॒रुत्ऽभिः॑ । रु॒द्रम् । हु॒वे॒म॒ । इन्द्र॑म् । अ॒ग्निम् । स्व॒स्तये॑ । अति॑ । द्विषः॑ ॥
स्वर रहित मन्त्र
आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा । उग्रं मरुद्भी रुद्रं हुवेमेन्द्रमग्निं स्वस्तयेऽति द्विष: ॥
स्वर रहित पद पाठआदित्यासः । अति । स्रिधः । वरुणः । मित्रः । अर्यमा । उग्रम् । मरुत्ऽभिः । रुद्रम् । हुवेम । इन्द्रम् । अग्निम् । स्वस्तये । अति । द्विषः ॥ १०.१२६.५
ऋग्वेद - मण्डल » 10; सूक्त » 126; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 5
पदार्थः -
(वरुणः-मित्रः-अर्यमा-आदित्यासः) वरुणो मित्रोऽर्यमा-इत्येतेऽस्माकमादातारः स्वीकर्त्तारः शरणे गृहीतारः (मरुद्भिः) तथा प्राणैः सह “मरुतः-प्राणादयः” [ऋ० १।५२।९ दयानन्दः] (उग्रं रुद्रम्-इन्द्रम्-अग्निम्) प्रतापिनं रोगद्रावयितारं सूर्यम् “रुदम्-यो रुत् रोगं द्रावयति तम्” [ऋ० ६।४९।१० दयानन्दः] वायुम् “यो वायुः स इन्द्रः” [श० ४।१।३।१९] अग्निं होमाग्निं च (स्वस्तये हुवेम) कल्याणाय स्वीकुर्मः (द्विषः-अति) पुनर्वयं द्वेष्टॄन् विरोधिनोऽतिक्रम्य स्थिता भवेम ॥५॥