ऋग्वेद - मण्डल 10/ सूक्त 127/ मन्त्र 8
ऋषिः - कुशिकः सौभरो, रात्रिर्वा भारद्वाजी
देवता - रात्रिस्तवः
छन्दः - गायत्री
स्वरः - षड्जः
उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः । रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥
स्वर सहित पद पाठउप॑ । ते॒ । गाःऽइ॒व । अ॒क॒र॒म् । वृ॒णी॒ष्व । दु॒हि॒तः॒ । दि॒वः॒ । रात्रि॑ । स्तोम॑म् । न । जि॒ग्युषे॑ ॥
स्वर रहित मन्त्र
उप ते गा इवाकरं वृणीष्व दुहितर्दिवः । रात्रि स्तोमं न जिग्युषे ॥
स्वर रहित पद पाठउप । ते । गाःऽइव । अकरम् । वृणीष्व । दुहितः । दिवः । रात्रि । स्तोमम् । न । जिग्युषे ॥ १०.१२७.८
ऋग्वेद - मण्डल » 10; सूक्त » 127; मन्त्र » 8
अष्टक » 8; अध्याय » 7; वर्ग » 14; मन्त्र » 8
अष्टक » 8; अध्याय » 7; वर्ग » 14; मन्त्र » 8
पदार्थः -
(रात्रि) हे रात्रे ! (ते गाः-इव-उप आ अकरम्) तुभ्यं दोग्ध्री गो इव घासादिना यथोपकुरुते गोस्वामी तद्वदुपचारं करोमि होमेन (वृणीष्व) त्वमनुकूलं सम्पादयास्मदर्थं तेन ससुखा भव (दिवः दुहितः) सूर्यस्य दुहितः (स्तोमं न जिग्युषे) विरोधिनं जेतुमिच्छुकाय स्तुतिसमूहमिव हव्यं प्रयच्छामि ॥८॥