Loading...
ऋग्वेद मण्डल - 10 के सूक्त 128 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 128/ मन्त्र 1
    ऋषिः - विहव्यः देवता - विश्वेदेवा: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम । मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥

    स्वर सहित पद पाठ

    मम॑ । अ॒ग्ने॒ । वर्चः॑ । वि॒ऽह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑नाः । त॒न्व॑म् । पु॒षे॒म॒ । मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः । त्वया॑ । अधि॑ऽअक्षेण । पृत॑नाः । ज॒ये॒म॒ ॥


    स्वर रहित मन्त्र

    ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥

    स्वर रहित पद पाठ

    मम । अग्ने । वर्चः । विऽहवेषु । अस्तु । वयम् । त्वा । इन्धानाः । तन्वम् । पुषेम । मह्यम् । नमन्ताम् । प्रऽदिशः । चतस्रः । त्वया । अधिऽअक्षेण । पृतनाः । जयेम ॥ १०.१२८.१

    ऋग्वेद - मण्डल » 10; सूक्त » 128; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 15; मन्त्र » 1

    पदार्थः -
    (अग्ने) हे अग्रणी ! सेनानायक ! ब्रह्मन् ! वा (विहवेषु) विविधह्वानस्थानेषु सङ्ग्रामेषु यज्ञेषु वा (मम वर्चः-अस्तु) मयि ‘सप्तम्यर्थे षष्ठी’ वर्चस्तेजो भवतु (वयं त्वा-इन्धानाः-तन्वं पुषेम) वयं त्वां दीपयन्तो बलवच्छब्दैः प्रोत्साहयन्तः स्वात्मानं पुष्येम “आत्मा वै तनूः” [श० ६।७।२।६] (प्रदिशः-चतस्रः) प्रमुखदिशश्चतस्रस्तत्रस्थाः-मनुष्याः प्रजाजना यद्वा सामान्यजनाः (मह्यं नमन्ताम्) मह्यं स्वात्मानं समर्पयन्तु (त्वया-अध्यक्षेण) त्वया सेनाध्यक्षेण यद्वा विद्याध्यक्षेण (पृतनाः-जयेम) सङ्ग्रामान् “पृतनाः सङ्ग्रामनाम” [निघ० २।१७] जयेम यद्वा मनुष्यान् “पृतनाः मनुष्यनाम” [निघ० २।३] अभिभवेम ॥१॥

    इस भाष्य को एडिट करें
    Top