ऋग्वेद - मण्डल 10/ सूक्त 13/ मन्त्र 1
ऋषिः - विवस्वानादित्यः
देवता - हविर्धाने
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः । शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥
स्वर सहित पद पाठयु॒जे । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नमः॑ऽभिः । वि । श्लोकः॑ । ए॒तु॒ । प॒थ्या॑ऽइव । सू॒रेः । शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृत॑स्य । पु॒त्राः । आ । ये । धामा॑नि । दि॒व्यानि॑ । त॒स्थुः ॥
स्वर रहित मन्त्र
युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येव सूरेः । शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥
स्वर रहित पद पाठयुजे । वाम् । ब्रह्म । पूर्व्यम् । नमःऽभिः । वि । श्लोकः । एतु । पथ्याऽइव । सूरेः । शृण्वन्तु । विश्वे । अमृतस्य । पुत्राः । आ । ये । धामानि । दिव्यानि । तस्थुः ॥ १०.१३.१
ऋग्वेद - मण्डल » 10; सूक्त » 13; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 1
विषयः - अत्र सूक्ते हविर्धानाभ्यां द्यावापृथिवीभ्यां मिषेण वरवध्वोर्गार्हस्थ्यचर्या विधीयते, अनन्तरं वनगमनं च।
पदार्थः -
(वाम्) युवाभ्यां हविर्धानाभ्यां हविषां धानमाधानं ययोर्याभ्यां वा ते द्यावापृथिव्यौ “द्यावापृथिवी वै देवानां हविर्धाने” [ऐ०१।३९] तद्वन्मनुष्याणां हविर्धाने स्त्रीपुरुषौ, भार्यापती, वधूवरौ, विवाहकाले याभ्यां मिलित्वा हविषामाधानं क्रियते-इति ताभ्यां पुरोहितो ब्रवीति (पूर्व्यं ब्रह्म) शाश्वतिकं मन्त्रविधानम् (नमोभिः) यज्ञैर्यज्ञाङ्गैः “यज्ञो वै नमः” [श०७।४।१।२०] यज्ञानाश्रित्य (युजे) युनज्मि प्रयुञ्जे-उच्चारयामि-उपदिशामि (सूरेः श्लोकः पथ्या-इव वि-एतु) सर्वोत्पादकस्य परमात्मनः “सूङः क्रिः [उणा०४।६४] श्रवणीय आदेशः “श्लोकः शृणोतेः” [निरु०९।९] पथ्यापथ्यया पथ्याभिर्वा मार्गदिग्भिः-विविधतया विशिष्टतया सर्वत्र गच्छतु यथा तम् (अमृतस्य विश्वे पुत्राः शृण्वन्तु) अमरस्य परमात्मनः सर्वे पुत्राः श्रोतारः शृण्वन्तु (ये दिव्यानि धामानि-आ तस्थुः) येऽत्र यज्ञियानि स्थानानि समातिष्ठन्ति “सुवर्णो लोको दिव्यं धामं” [तै०२।६।७।६] “स्वर्गो वै लोको यज्ञः” [कौ०१४।१] ॥१॥