ऋग्वेद - मण्डल 10/ सूक्त 13/ मन्त्र 3
ऋषिः - विवस्वानादित्यः
देवता - हविर्धाने
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
पञ्च॑ प॒दानि॑ रु॒पो अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे॑मि व्र॒तेन॑ । अ॒क्षरे॑ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ॥
स्वर सहित पद पाठपञ्च॑ । प॒दानि॑ । रु॒पः । अनु॑ । अ॒रो॒ह॒म् । चतुः॑ऽपदीम् । अनु॑ । ए॒मि॒ । व्र॒तेन॑ । अ॒क्षरे॑ण । प्रति॑ । मि॒मे॒ । ए॒ताम् । ऋ॒तस्य॑ । नाभौ॑ । अधि॑ । सम् । पु॒ना॒मि॒ ॥
स्वर रहित मन्त्र
पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन । अक्षरेण प्रति मिम एतामृतस्य नाभावधि सं पुनामि ॥
स्वर रहित पद पाठपञ्च । पदानि । रुपः । अनु । अरोहम् । चतुःऽपदीम् । अनु । एमि । व्रतेन । अक्षरेण । प्रति । मिमे । एताम् । ऋतस्य । नाभौ । अधि । सम् । पुनामि ॥ १०.१३.३
ऋग्वेद - मण्डल » 10; सूक्त » 13; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 3
पदार्थः -
(रूपः पञ्च पदानि-अनु-अरोहम्) शरीरे विमोहं प्राप्तोऽहं जीवः “रूप विमोहने” [दिवादि०] इदानीं गार्हस्थ्यान्निवृत्तौ विरक्तो वनस्थोऽनुभवामि यत् शरीरस्य पञ्चकोशात्मकानि रूपाणि खल्वनुक्रान्तवान् (व्रतेन चतुष्पदीम्-अन्वेमि) सद्व्रतेन योगाभ्यासेन जाग्रत्स्वप्नसुषुप्ततुरीयावस्थासु तुरीयावस्थामप्यनुभवामि, तदा (एताम्-अक्षरेण-प्रतिमिमे) एतामवस्थां “ओ३म्’ इत्याख्येन-अविनाशिना ब्रह्मणा सह सायुज्यं सादृश्यं नयामि, एवम् (ऋतस्य नाभौ अधि सम् पुनामि) अध्यात्मयज्ञस्य मध्ये स्वात्मानं सम्यग् निर्मलीकरोमि ॥३॥