Loading...
ऋग्वेद मण्डल - 10 के सूक्त 136 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 136/ मन्त्र 6
    ऋषिः - मुनयो वातरशनाः देवता - केशिनः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    अ॒प्स॒रसां॑ गन्ध॒र्वाणां॑ मृ॒गाणां॒ चर॑णे॒ चर॑न् । के॒शी केत॑स्य वि॒द्वान्त्सखा॑ स्वा॒दुर्म॒दिन्त॑मः ॥

    स्वर सहित पद पाठ

    अ॒प्स॒रसा॑म् । ग॒न्ध॒र्वाणा॑म् । मृ॒गाणा॑म् । चर॑णे । चर॑न् । के॒शी । केत॑स्य । वि॒द्वान् । सखा॑ । स्वा॒दुः । म॒दिन्ऽत॑मः ॥


    स्वर रहित मन्त्र

    अप्सरसां गन्धर्वाणां मृगाणां चरणे चरन् । केशी केतस्य विद्वान्त्सखा स्वादुर्मदिन्तमः ॥

    स्वर रहित पद पाठ

    अप्सरसाम् । गन्धर्वाणाम् । मृगाणाम् । चरणे । चरन् । केशी । केतस्य । विद्वान् । सखा । स्वादुः । मदिन्ऽतमः ॥ १०.१३६.६

    ऋग्वेद - मण्डल » 10; सूक्त » 136; मन्त्र » 6
    अष्टक » 8; अध्याय » 7; वर्ग » 24; मन्त्र » 6

    पदार्थः -
    (अप्सरसाम्) अप्सु-अन्तरिक्षे सरन्तां रश्मीनां “अप्सरसः-आकाशगताः किरणाः” [यजु० १८।४० दयानन्दः] (गन्धर्वाणाम्) ये गां पृथिवीं धरन्ति तेषां पृथिवीगतानां रश्मीनां (मृगाणाम्) मृज्यमानानां द्युलोकगतानां रश्मीनां (चरणे) चरणनिमित्तं प्रसारनिमित्तं (चरन्) चरन् वर्त्तते यः (केशी) रश्मिमान् सूर्यः (केतस्य-विद्वान्) प्रज्ञानस्य यद्वा-अग्नेः “केतो अग्निः” [तै० आ० ३।१।१] ज्ञापयन् ज्ञापनहेतुः (सखा) सखेव हितसाधकः (स्वादुः) अन्नादौ स्वादस्य प्रेरकः (मदिन्तमः) अत्यन्तहर्षयिताऽस्ति ॥६॥

    इस भाष्य को एडिट करें
    Top