ऋग्वेद - मण्डल 10/ सूक्त 136/ मन्त्र 7
वा॒युर॑स्मा॒ उपा॑मन्थत्पि॒नष्टि॑ स्मा कुनन्न॒मा । के॒शी वि॒षस्य॒ पात्रे॑ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ॥
स्वर सहित पद पाठवा॒युर् । अ॒स्मै॒ । उप॑ । अ॒म॒न्थ॒त् । पि॒नष्टि॑ । स्म॒ । कु॒न॒न्न॒मा । के॒शी । वि॒षस्य॑ । पात्रे॑ण । यत् । रु॒द्रेण॑ । अपि॑बत् । स॒ह ॥
स्वर रहित मन्त्र
वायुरस्मा उपामन्थत्पिनष्टि स्मा कुनन्नमा । केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सह ॥
स्वर रहित पद पाठवायुर् । अस्मै । उप । अमन्थत् । पिनष्टि । स्म । कुनन्नमा । केशी । विषस्य । पात्रेण । यत् । रुद्रेण । अपिबत् । सह ॥ १०.१३६.७
ऋग्वेद - मण्डल » 10; सूक्त » 136; मन्त्र » 7
अष्टक » 8; अध्याय » 7; वर्ग » 24; मन्त्र » 7
अष्टक » 8; अध्याय » 7; वर्ग » 24; मन्त्र » 7
पदार्थः -
(केशी) सूर्यः (विषस्य) जलस्य-जलम् “विषमुदकनाम” [नि० १।१२] (पात्रेण) पातुं साधनं पात्रं तेन रश्मिसमूहेन, तथा (रुद्रेण सह) अग्निना-सह “अग्निरपि रुद्र उच्यते” [निरु० १०।७] “अथ यत्रैतत् प्रथमं समिददो भवति धूप्यत इव तर्ह्येषः-अग्निर्भवति-रुद्रः” [श० २।३।२।९] (यत्-अपिबत्) यदा पिबति-उपरि गृह्णाति तदा (अस्मै वायुः-उप अमन्थत्) अस्मै सूर्याय वायुरुपामन्थयति-तज्जलं विलोडयति (कुनन्नमा-पिनष्टि स्म) कुत्सिता नमयित्री न केनदचिदपि नामयितुं योग्या विद्युत् ‘कुपूर्वात् नमधातोरचि यङ्लुकि प्रयोगः’, तज्जलं चूर्णयति-अवयवीकरोति पुनर्वर्षति ॥७॥