Loading...
ऋग्वेद मण्डल - 10 के सूक्त 137 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 137/ मन्त्र 7
    ऋषिः - सप्त ऋषय एकर्चाः देवता - विश्वेदेवा: छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी । अ॒ना॒म॒यि॒त्नुभ्यां॑ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥

    स्वर सहित पद पाठ

    हस्ता॑भ्याम् । दश॑ऽशाखाभ्याम् । जि॒ह्वा । वा॒चः । पु॒रः॒ऽग॒वी । अ॒ना॒म॒यि॒त्नुऽभ्या॑म् । त्वा॒ । ताभ्या॑म् । त्वा॒ । उप॑ । स्पृ॒शा॒म॒सि॒ ॥


    स्वर रहित मन्त्र

    हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी । अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥

    स्वर रहित पद पाठ

    हस्ताभ्याम् । दशऽशाखाभ्याम् । जिह्वा । वाचः । पुरःऽगवी । अनामयित्नुऽभ्याम् । त्वा । ताभ्याम् । त्वा । उप । स्पृशामसि ॥ १०.१३७.७

    ऋग्वेद - मण्डल » 10; सूक्त » 137; मन्त्र » 7
    अष्टक » 8; अध्याय » 7; वर्ग » 25; मन्त्र » 7

    पदार्थः -
    (दशशाखाभ्यां हस्ताभ्याम्) दशाङ्गुलिकाभ्यां हस्ताभ्याम् “शाखाः-अङ्गुलिनाम” [निघ० ३।५] (अनामयित्नुभ्यां ताभ्याम्) रोगनिवारकाभ्यां ताभ्यां (त्वा-उप स्पृशामसि) त्वामुपस्पृशामः तथा (जिह्वा वाचः पुरोगवी) जिह्वा वाचः पुरः प्रेरयित्री तथाऽऽश्वासनेनापि रोगो दूरीभविष्यतीत्याशासे ॥७॥

    इस भाष्य को एडिट करें
    Top