ऋग्वेद - मण्डल 10/ सूक्त 138/ मन्त्र 6
ए॒ता त्या ते॒ श्रुत्या॑नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञम् । मा॒सां वि॒धान॑मदधा॒ अधि॒ द्यवि॒ त्वया॒ विभि॑न्नं भरति प्र॒धिं पि॒ता ॥
स्वर सहित पद पाठए॒ता । त्या । ते॒ । श्रुत्या॑नि । केव॑ला । यत् । एकः॑ । एक॑म् । अकृ॑णोः । अ॒य॒ज्ञम् । मा॒साम् । वि॒ऽधान॑म् । अ॒द॒धाः॒ । अधि॑ । द्यवि॑ । त्वया॑ । विऽभि॑न्नम् । भ॒र॒ति॒ । प्र॒ऽघि॑म् । पि॒ता ॥
स्वर रहित मन्त्र
एता त्या ते श्रुत्यानि केवला यदेक एकमकृणोरयज्ञम् । मासां विधानमदधा अधि द्यवि त्वया विभिन्नं भरति प्रधिं पिता ॥
स्वर रहित पद पाठएता । त्या । ते । श्रुत्यानि । केवला । यत् । एकः । एकम् । अकृणोः । अयज्ञम् । मासाम् । विऽधानम् । अदधाः । अधि । द्यवि । त्वया । विऽभिन्नम् । भरति । प्रऽघिम् । पिता ॥ १०.१३८.६
ऋग्वेद - मण्डल » 10; सूक्त » 138; मन्त्र » 6
अष्टक » 8; अध्याय » 7; वर्ग » 26; मन्त्र » 6
अष्टक » 8; अध्याय » 7; वर्ग » 26; मन्त्र » 6
पदार्थः -
(ते) हे राजन् ! तव (एता त्या श्रुत्यानि केवला) इमानि तानि श्रोतव्यानि यशस्यानि कर्माणि केवलानि सन्ति (यत्) यत् (एकः) त्वमेकः सन् (एकम्-अयज्ञम्-अकृणोः) अन्यं यज्ञहीनं नास्तिकं शत्रुं हंसि (मासां विधानम्) मासानाम् “पद्दन्नोमास्” [अष्टा० ६।१।६१] विधाननिमित्तं सूर्यमिव (द्यवि-अधि) द्युलोके (अदधाः) स्वयशो धारयसि (त्वया विभिन्नं प्रधिम्) त्वत्तः “पञ्चमीस्थाने तृतीया व्यत्ययेन” विभिन्नं प्रधानं पिण्डं सूर्यं (पिता भरति) पालकः परमात्मा धारयति ॥६॥