ऋग्वेद - मण्डल 10/ सूक्त 139/ मन्त्र 2
ऋषिः - विश्वावसुर्देवगन्धर्वः
देवता - सविता
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
नृ॒चक्षा॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥
स्वर सहित पद पाठनृ॒ऽचक्षाः॑ । ए॒षः । दि॒वः । मध्ये॑ । आ॒स्ते॒ । आ॒प॒प्रि॒ऽवान् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् । सः । वि॒श्वाचीः॑ । अ॒भि । च॒ष्टि॒ । घृ॒ताचीः॑ । अ॒न्त॒रा । पूर्व॑म् । अप॑रम् । च॒ । के॒तुम् ॥
स्वर रहित मन्त्र
नृचक्षा एष दिवो मध्य आस्त आपप्रिवान्रोदसी अन्तरिक्षम् । स विश्वाचीरभि चष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् ॥
स्वर रहित पद पाठनृऽचक्षाः । एषः । दिवः । मध्ये । आस्ते । आपप्रिऽवान् । रोदसी इति । अन्तरिक्षम् । सः । विश्वाचीः । अभि । चष्टि । घृताचीः । अन्तरा । पूर्वम् । अपरम् । च । केतुम् ॥ १०.१३९.२
ऋग्वेद - मण्डल » 10; सूक्त » 139; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 27; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 27; मन्त्र » 2
पदार्थः -
(नृचक्षाः) कर्मनेतॄणां मनुष्याणां द्रष्टा साक्षी परमात्मा यद्वा नृभिर्जनैर्दृश्यमान आदित्यः (एषः) एष खलु (दिवः-मध्ये-आस्ते) ज्ञानानन्दमये मोक्षे वर्तते प्राप्यते यद्वा द्युलोके तिष्ठति वर्तते (रोदसी-अन्तरिक्षम्-आपप्रिवान्) द्यावापृथिव्यौ-अन्तरिक्षं च पूरयति “प्रा पूरणे” [अदादि०] “लिटि क्वसुः” (सः) स खलु (विश्वाचीः-अभिचष्टे) विश्वमञ्चन्तीः-दिशोऽभिप्रकाशयति (पूर्वम्-अपरम्-अन्तरा केतुम्) पूर्वं पश्चिमं तयोरन्तरालं केतुं केतनीयं-सङ्केतनीयं प्रदेशं चाभिप्रकाशयति ॥२॥