ऋग्वेद - मण्डल 10/ सूक्त 139/ मन्त्र 3
ऋषिः - विश्वावसुर्देवगन्धर्वः
देवता - सविता
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥
स्वर सहित पद पाठरा॒यः॑ । बु॒ध्नः । स॒म्ऽगम॑नः । वसू॑नाम् । विश्वा॑ । रू॒पा । अ॒भि । च॒ष्टे॒ । शची॑भिः । दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । इन्द्रः॑ । न । त॒स्थौ॒ । स॒म्ऽअ॒रे । धना॑नाम् ॥
स्वर रहित मन्त्र
रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥
स्वर रहित पद पाठरायः । बुध्नः । सम्ऽगमनः । वसूनाम् । विश्वा । रूपा । अभि । चष्टे । शचीभिः । देवःऽइव । सविता । सत्यऽधर्मा । इन्द्रः । न । तस्थौ । सम्ऽअरे । धनानाम् ॥ १०.१३९.३
ऋग्वेद - मण्डल » 10; सूक्त » 139; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 27; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 27; मन्त्र » 3
पदार्थः -
(रायः-बुध्नः) ज्ञानधनस्य “बोधधनस्य” [यजु० ७।१४ दयानन्दः] बोधयिता “बुध्नः-यो बोधयति सर्वान् पदार्थान् वेदद्वारा सः” [ऋ० १।९६।६ दयानन्दः] परमात्मा तथा प्रकाशेन बोधयिताऽऽदित्यः (वसूनां सङ्गमनः) प्राणानां सङ्गमयिता “प्राणा-वै वसवः” [तै० ३।२।३।३] विश्वा रूपा शचीभिः-अभिचष्टे) विश्वानि सर्वाणि निरूपणीयानि वस्तूनि वेदवाग्भिरभिप्रकाशयति “शची वाङ्नाम” [निघ० १।११] कर्मभिर्वा “शची कर्मनाम” [निघ० २।१] (देवः-इव-सविता सत्यधर्मा) देवः सविता “इवोऽपि दृश्यते-पदपूरणः” [निरु० १।१०] परमात्मा तथा सूर्यः सत्यनियमवान्-अस्ति (इन्द्रः-न धनानां समरे तस्थौ) राजेव धनानां सम्प्रापणे स्थितः-तिष्ठति वा ॥३॥