ऋग्वेद - मण्डल 10/ सूक्त 139/ मन्त्र 4
ऋषिः - विश्वावसुर्देवगन्धर्वः
देवता - सविता
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् । तद॒न्ववै॒दिन्द्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥
स्वर सहित पद पाठवि॒श्वऽव॑सुम् । सो॒म॒ । ग॒न्ध॒र्वम् । आपः॑ । द॒दृ॒शुषीः॑ । तत् । ऋ॒तेन॑ । वि । आ॒य॒न् । तत् । अ॒नु॒ऽअवै॑त् । इन्द्रः॑ । र॒र॒हा॒णः । आ॒सा॒म् । परि॑ । सूर्य॑स्य । प॒रि॒ऽधीन् । अ॒प॒श्य॒त् ॥
स्वर रहित मन्त्र
विश्वावसुं सोम गन्धर्वमापो ददृशुषीस्तदृतेना व्यायन् । तदन्ववैदिन्द्रो रारहाण आसां परि सूर्यस्य परिधीँरपश्यत् ॥
स्वर रहित पद पाठविश्वऽवसुम् । सोम । गन्धर्वम् । आपः । ददृशुषीः । तत् । ऋतेन । वि । आयन् । तत् । अनुऽअवैत् । इन्द्रः । ररहाणः । आसाम् । परि । सूर्यस्य । परिऽधीन् । अपश्यत् ॥ १०.१३९.४
ऋग्वेद - मण्डल » 10; सूक्त » 139; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 27; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 27; मन्त्र » 4
पदार्थः -
(सोम) हे सोम्यस्वभाव जिज्ञासो ! (विश्वावसुं गन्धर्वम्) विश्वं वासयति-विश्वस्मिन् वसति वा यस्तम् “विश्वावसुः-विश्वं वासयति यः सः” [यजु० २।३ दयानन्दः] गां वेदवाचं पृथिवीं वा धरति धारयति यस्तं परमात्मानम् (आपः-ददृशुषीः) आप्तप्रजाः “मनुष्या वा-आपश्चन्द्राः” [श० ७।३।१।२०] दृष्टवत्यः-दर्शनं शक्तिमत्यः पश्यन्ति “दृशधातोर्लिटि क्वसु स्त्रियां ङीप्” “उगितश्च” [अष्टा० ४।१।६] (तत्-ऋतेन वि-आयन्) तद्दर्शनमध्यात्मयज्ञेन-विशिष्टं प्राप्नुवन्ति (तत्-इन्द्रः-अन्ववैत्) तस्मात्-तथा-आत्माऽनुभवति (आसां रारहाणः) य आसामाप्तप्रजानां मध्ये विषयभोगस्य त्यक्ता भवति “रारहाणाः-त्यक्तारः” [ऋ० १।१६४।११ दयानन्दः] (सूर्यस्य परिधीन् परि-अपश्यत्) सः सूर्यस्य परितो धीयमानान् रश्मीन् परिपश्यति “सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषोऽव्ययात्मा” [मुण्ड० १।२।११] ॥४॥