ऋग्वेद - मण्डल 10/ सूक्त 139/ मन्त्र 5
ऋषिः - विश्वावसुर्देवगन्धर्वः
देवता - सविता
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मान॑: । यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥
स्वर सहित पद पाठवि॒श्वऽव॑सुः । अ॒भि । तत् । नः॒ । गृ॒णा॒तु॒ । दि॒व्यः । ग॒न्ध॒र्वः । रज॑सः । वि॒ऽमानः । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म । धियः॑ । हि॒न्वा॒नः । धियः॑ । इत् । नः॒ । अ॒व्याः॒ ॥
स्वर रहित मन्त्र
विश्वावसुरभि तन्नो गृणातु दिव्यो गन्धर्वो रजसो विमान: । यद्वा घा सत्यमुत यन्न विद्म धियो हिन्वानो धिय इन्नो अव्याः ॥
स्वर रहित पद पाठविश्वऽवसुः । अभि । तत् । नः । गृणातु । दिव्यः । गन्धर्वः । रजसः । विऽमानः । यत् । वा । घ । सत्यम् । उत । यत् । न । विद्म । धियः । हिन्वानः । धियः । इत् । नः । अव्याः ॥ १०.१३९.५
ऋग्वेद - मण्डल » 10; सूक्त » 139; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 27; मन्त्र » 5
अष्टक » 8; अध्याय » 7; वर्ग » 27; मन्त्र » 5
पदार्थः -
(विश्वावसुः-दिव्यः) विश्ववासको मोक्षधामाधिपतिः (गन्धर्वः-रजसः-विमानः) वेदवाचो धारयिता, लोकस्य निर्माता (नः-तत्-अभि-गृणातु) अस्मान् तदुपदिशतु (यत्-वा घ सत्यम्) यच्च खलु-सत्यज्ञानं (यत्-न विद्म) यद्वयं न जानीमः (धियः-हिन्वानः) बुद्धीः प्रेरयन् (नः-धियः-इत्-अव्याः) स त्वमस्माकं बुद्धीः रक्षेः ॥५॥