ऋग्वेद - मण्डल 10/ सूक्त 14/ मन्त्र 16
त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् । त्रि॒ष्टुब्गा॑य॒त्री छन्दां॑सि॒ सर्वा॒ ता य॒म आहि॑ता ॥
स्वर सहित पद पाठत्रिऽक॑द्रुकेभिः । प॒त॒ति॒ । षट् । उ॒र्वीः । एक॑म् । इत् । बृ॒हत् । त्रि॒ऽस्तुप् । गा॒य॒त्री । छन्दां॑सि । सर्वा॑ । ता । य॒मे । आऽहि॑ता ॥
स्वर रहित मन्त्र
त्रिकद्रुकेभिः पतति षळुर्वीरेकमिद्बृहत् । त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता ॥
स्वर रहित पद पाठत्रिऽकद्रुकेभिः । पतति । षट् । उर्वीः । एकम् । इत् । बृहत् । त्रिऽस्तुप् । गायत्री । छन्दांसि । सर्वा । ता । यमे । आऽहिता ॥ १०.१४.१६
ऋग्वेद - मण्डल » 10; सूक्त » 14; मन्त्र » 16
अष्टक » 7; अध्याय » 6; वर्ग » 16; मन्त्र » 6
अष्टक » 7; अध्याय » 6; वर्ग » 16; मन्त्र » 6
पदार्थः -
(एकम्-इत्-बृहत् त्रिकद्रुकेभिः-षड्उर्वीः पतति) एक एव स्वाभाविकः स्वातन्त्र्येण विराजमानः कालः त्रिकद्रुकेभिः-भूतवर्त्तमानभविष्यन्नामकै-स्त्रिचक्रैः षडुर्वीः भूमिरूपानृतून् प्राप्नोति “उर्वी पृथिवीनाम [निरु०१।१] कद्रुकं चक्रम् “कद् वैकल्ये” [भ्वादिः] एतस्मादौणादिको रुः प्रत्ययस्ततश्च कः (त्रिष्टुप्) द्युलोकः “त्रिष्टुबसौ द्यौः” [श०१।७।२।१५] (गायत्री) पृथिवीलोकः। “या वै सा गायत्र्यासीदियं वै सा पृथिवी” [श०१।४।१।३४] (ता सर्वा छन्दांसि) ताः सर्वा दिशोऽन्तरिक्षलोक इत्यर्थः “छन्दांसि वै दिशः” [श०८।३।१।१२] (यमे) काले विश्वकाले (आहिता) वर्तन्ते ॥१६॥