ऋग्वेद - मण्डल 10/ सूक्त 15/ मन्त्र 1
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तर॑: सो॒म्यास॑: । असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥
स्वर सहित पद पाठउत् । ई॒र॒ता॒म् । अव॑रे । उत् । परा॑सः । उत् । म॒ध्य॒माः । पि॒तरः॑ । सो॒म्यासः॑ । असु॑म् । ये । ई॒युः । अ॒वृ॒काः । ऋ॒त॒ऽज्ञाः । ते । नः॒ । अ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥
स्वर रहित मन्त्र
उदीरतामवर उत्परास उन्मध्यमाः पितर: सोम्यास: । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥
स्वर रहित पद पाठउत् । ईरताम् । अवरे । उत् । परासः । उत् । मध्यमाः । पितरः । सोम्यासः । असुम् । ये । ईयुः । अवृकाः । ऋतऽज्ञाः । ते । नः । अवन्तु । पितरः । हवेषु ॥ १०.१५.१
ऋग्वेद - मण्डल » 10; सूक्त » 15; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 17; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 17; मन्त्र » 1
पदार्थः -
(उदीरताम्-अवरे-उत्-परासः-उत् मध्यमाः पितरः सोम्यासः) “उदीरतामवर उदीरतां पर उदीरतां मध्यमाः पितरः सोम्याः सोमसम्पादिनस्ते” [निरु०११।१८] अवरे प्रातःसवनीयाः सोमसम्पादिन उत्पद्यमानेषु रससम्पादिनः सूर्यरश्मयो रसयुक्तान् पदार्थानुदीरतामुन्नयन्तु मध्यमा माध्यन्दिनसवनीयाः पूर्ववद् रससम्पादिनो रविकिरणा उदीरताम्-उन्नयन्तु तानेव पदार्थान्। परे वर्तमानास्तृतीयसवनिकाः सूर्यरश्मय उदीरतामुन्नयन्तु तानेव। एवं त्रीणि सवनानि यज्ञस्य भवन्ति तत्सम्बद्धाः सर्वे हि सूर्यरश्मय उन्नयन्तु (असुं ये-ईयुः-अवृकाः-ऋतज्ञाः-ते नः-पितरः-हवेषु-अवन्तु) “असुं ये प्राणमन्वीयुरवृका अनमित्राः सत्यज्ञा वा यज्ञज्ञा वा ते न आगच्छन्तु पितरो हवेषु” [निरु०११।१८] ये पितरः सूर्यरश्मयोऽसुं प्राणं प्राणवन्तं जीवमात्रमीयुः प्राप्ताः सन्ति तेऽवृका अनमित्रा अस्माभिः सह संश्लिष्टा ऋतज्ञा यज्ञज्ञा वा यज्ञस्य ज्ञानसाधकाः। ‘कृतो बहुलमित्यपि करणे कः’ अस्माकं ह्वानेषु विचारस्पर्द्धासून्नेतुमागच्छन्तु-आगच्छन्ति ॥१॥