ऋग्वेद - मण्डल 10/ सूक्त 15/ मन्त्र 2
इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः । ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु वि॒क्षु ॥
स्वर सहित पद पाठइ॒दम् । पि॒तृऽभ्यः॑ । नमः॑ । अ॒स्तु॒ । अ॒द्य । ये । पूर्वा॑सः । ये । उप॑रासः । ई॒युः । ये । पार्थि॑वे । रज॑सि । आ । निऽस॑त्ताः । ये । वा॒ । नू॒नम् । सु॒ऽवृ॒जना॑सु । वि॒क्षु ॥
स्वर रहित मन्त्र
इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः । ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥
स्वर रहित पद पाठइदम् । पितृऽभ्यः । नमः । अस्तु । अद्य । ये । पूर्वासः । ये । उपरासः । ईयुः । ये । पार्थिवे । रजसि । आ । निऽसत्ताः । ये । वा । नूनम् । सुऽवृजनासु । विक्षु ॥ १०.१५.२
ऋग्वेद - मण्डल » 10; सूक्त » 15; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 17; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 17; मन्त्र » 2
पदार्थः -
(पितृभ्यः-इदं नमः अस्तु) सूर्यरश्मिभ्य इदं नमोऽयं यज्ञोऽस्तु। “यज्ञो वै नमः” [श०२।४।२।२४] कतमेभ्यः ? (अद्य ये पूर्वासः-ये-उपरासः ईयुः-ये-पार्थिवे रजसि-आ निषत्ता ये वा नूनं सुवृजनासु विक्षु) अद्यास्मिन्दिनेऽद्यतने ये पूर्वदिशासम्बन्धिनः सूर्यरश्मय ईयुः प्राप्ताः सन्ति ये-उपरासः-पश्चिमदिशामीयुः प्रतिगताः सूर्यरश्मयो ये पार्थिवे रजसि-पृथिवीलोके पृथिवीतले वा सम्प्रविष्टा रश्मयः। “लोका रजांस्युच्यन्ते” [निरु०४।१९] ये वा सुवृजनासु सुस्पष्टं निर्मलं वृजनमन्तरिक्षमाकाशं यासां तासु-अन्तरिक्षवासिनीषु विक्षु प्रजासु समन्तात्प्रविष्टाः सन्ति तेभ्यः सूर्यरश्मिभ्यः पूर्वोक्तो यज्ञोऽस्तु “वृजनमन्तरिक्षम्” [उणादि० दयानन्दः] ॥२॥