Loading...
ऋग्वेद मण्डल - 10 के सूक्त 15 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 15/ मन्त्र 3
    ऋषिः - शङ्खो यामायनः देवता - पितरः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णो॑: । ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥

    स्वर सहित पद पाठ

    आ । अ॒हम् । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । अ॒वि॒त्सि॒ । नपा॑तम् । च॒ । वि॒ऽक्रम॑णम् । च॒ । विष्णोः॑ । ब॒र्हि॒ऽसदः॑ । ये । स्व॒धया॑ । सु॒तस्य॑ । भज॑न्त । पि॒त्वः । ते । इ॒ह । आऽग॑मिष्ठाः ॥


    स्वर रहित मन्त्र

    आहं पितॄन्त्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णो: । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥

    स्वर रहित पद पाठ

    आ । अहम् । पितॄन् । सुऽविदत्रान् । अवित्सि । नपातम् । च । विऽक्रमणम् । च । विष्णोः । बर्हिऽसदः । ये । स्वधया । सुतस्य । भजन्त । पित्वः । ते । इह । आऽगमिष्ठाः ॥ १०.१५.३

    ऋग्वेद - मण्डल » 10; सूक्त » 15; मन्त्र » 3
    अष्टक » 7; अध्याय » 6; वर्ग » 17; मन्त्र » 3

    पदार्थः -
    (अहं सुविदत्रान् पितॄन्-आ-अवित्सि-विष्णोः-नपातं विक्रमणं च) अहं कल्याणविद्यान् पालकजनान् तथा विष्णोर्यज्ञस्य स्थिरत्वं व्याप्तित्वं विक्रमणं चान्तरिक्षे सञ्चारविशेषं चावित्सि-आस्मरामि मनसि धारयामि “यज्ञो वै विष्णुः” [श०१३।१।८।८] अवित्सि ‘विद् विचारणे’ लुङि रूपम्। (ये बर्हिषदः सुतस्य पित्वः स्वधया भजन्त ते-इह-आगमिष्ठाः) ये बर्हिषदो यज्ञासने सीदन्ति ते सुतस्य सम्पादितस्य पक्वस्य पित्वोऽन्नस्य “पितुरन्ननाम” [नि०२।७] स्वधया स्वधारणया स्वेच्छया भजन्त भजत सेवेध्वम्, ‘अत्र नकारोपजनशछान्दसः’। अत एव यूयमत्रागमिष्ठाः-आगच्छत। स्वधा-स्व-धारणा स्वं दधाति स्वधा “आतोऽनुपसर्गे कः” [अष्टा०३।२।३] स्त्रियां स्वधा ॥३॥

    इस भाष्य को एडिट करें
    Top