Loading...
ऋग्वेद मण्डल - 10 के सूक्त 143 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 143/ मन्त्र 5
    ऋषिः - अत्रिः साङ्ख्यः देवता - अश्विनौ छन्दः - अनुष्टुप् स्वरः - गान्धारः

    यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई॑ङ्खि॒तम् । या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतम् ॥

    स्वर सहित पद पाठ

    यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज॑सः । पा॒रे । ई॒ङ्खि॒तम् । या॒तम् । अच्छ॑ । प॒त॒त्रिऽभिः॑ । नास॑त्या । सा॒तये॑ । कृ॒त॒म् ॥


    स्वर रहित मन्त्र

    युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् । यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥

    स्वर रहित पद पाठ

    युवम् । भुज्युम् । समुद्रे । आ । रजसः । पारे । ईङ्खितम् । यातम् । अच्छ । पतत्रिऽभिः । नासत्या । सातये । कृतम् ॥ १०.१४३.५

    ऋग्वेद - मण्डल » 10; सूक्त » 143; मन्त्र » 5
    अष्टक » 8; अध्याय » 8; वर्ग » 1; मन्त्र » 5

    पदार्थः -
    (नासत्या) हे असत्यव्यवहाररहितौ-सत्याचरणवन्तौ-अध्यात्माध्या-पकोपदेशकौ ! (युवम्) युवां (रजसः समुद्रे-ईङ्खितं भुज्युम्) रञ्जनात्मकस्य भोगविलासस्य “रजसा रागविषयस्य” [ऋ० १।५२।१४ दयानन्दः] समुद्रे-समुद्र इव गहने “समुद्रः समुद्द्रवन्ति कामुका यस्मिन् व्यवहारे सः” [यजु० १३।१६ दयानन्दः] दोलयन्तं भोक्तारं जीवात्मानम् “भुज्युं भोक्तारम् [ऋ० ४।२७।४ दयानन्दः] (अच्छ-आयातम्) समन्तात् प्राप्नुथः, अथ (पतत्रिभिः-सातये पारे कृतम्) प्रापणप्रकारैरध्यात्मसाधनभूतैः श्रवणादिभिः-मोक्षप्राप्तये पारे कुरुथः “कृ धातोश्छान्दसो विकरणलुक्” ॥५॥

    इस भाष्य को एडिट करें
    Top