ऋग्वेद - मण्डल 10/ सूक्त 143/ मन्त्र 6
ऋषिः - अत्रिः साङ्ख्यः
देवता - अश्विनौ
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
आ वां॑ सु॒म्नैः शं॒यू इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा । सम॒स्मे भू॑षतं न॒रोत्सं॒ न पि॒प्युषी॒रिष॑: ॥
स्वर सहित पद पाठआ । वा॒म् । सु॒म्नैः । शं॒यूइ॒वेति॑ शं॒यूऽइ॑व । मंहि॑ष्ठा । विश्व॑ऽवेदसा । सम् । अ॒स्मे इति॑ । भू॒ष॒त॒म् । न॒रा॒ । उत्स॑म् । न । पि॒प्युषीः॑ । इषः॑ ॥
स्वर रहित मन्त्र
आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा । समस्मे भूषतं नरोत्सं न पिप्युषीरिष: ॥
स्वर रहित पद पाठआ । वाम् । सुम्नैः । शंयूइवेति शंयूऽइव । मंहिष्ठा । विश्वऽवेदसा । सम् । अस्मे इति । भूषतम् । नरा । उत्सम् । न । पिप्युषीः । इषः ॥ १०.१४३.६
ऋग्वेद - मण्डल » 10; सूक्त » 143; मन्त्र » 6
अष्टक » 8; अध्याय » 8; वर्ग » 1; मन्त्र » 6
अष्टक » 8; अध्याय » 8; वर्ग » 1; मन्त्र » 6
पदार्थः -
(विश्ववेदसा) हे सर्वज्ञानवन्तौ-अध्यापकोपदेशकौ ! (मंहिष्ठा शंयू-इव) अत्यन्तज्ञानदातारौ शं प्रापयितारौ, ‘इव इति पदपूरणः’ “इवोऽपि दृश्यते” [निरु० १।१०] (वां सुम्नैः-नरा) युवां नेतारौ साधूपदेशैः “सुम्ने मा धत्तमिति साधौ मा धत्तमित्येवैतदाह” [श० १।८।३।२७] (अस्मे-आ सम्-भूषतम्) अस्मान् समन्तात् संस्कुरुथः (पिप्युषीः-इषः-उत्सं न) यथा प्रवर्धमाना वृष्टेरापः-उत्सं कूपं जलाशयं पूरयन्ति “प्यायी वृद्धौ” [भ्वादि०] ततो लिटि क्वसुः “लिड्यङोश्च” [अष्टा० ६।१।२९] इति पी भावः “इषा मदन्ति अद्भिः सह सम्मोदन्ते” [निरु० १।२६] ॥६॥