ऋग्वेद - मण्डल 10/ सूक्त 144/ मन्त्र 2
ऋषिः - सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः
देवता - इन्द्र:
छन्दः - स्वराडार्चीबृहती
स्वरः - मध्यमः
अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते । अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मद॑म् ॥
स्वर सहित पद पाठअ॒यम् । अ॒स्मासु॑ । काव्यः॑ । ऋ॒भुः । वज्रः॑ । दास्व॑ते । अ॒यम् । बि॒भ॒र्ति॒ । ऊ॒र्ध्वऽकृ॑शनम् । मद॑म् । ऋ॒भुः । न । कृत्व्य॑म् । मद॑म् ॥
स्वर रहित मन्त्र
अयमस्मासु काव्य ऋभुर्वज्रो दास्वते । अयं बिभर्त्यूर्ध्वकृशनं मदमृभुर्न कृत्व्यं मदम् ॥
स्वर रहित पद पाठअयम् । अस्मासु । काव्यः । ऋभुः । वज्रः । दास्वते । अयम् । बिभर्ति । ऊर्ध्वऽकृशनम् । मदम् । ऋभुः । न । कृत्व्यम् । मदम् ॥ १०.१४४.२
ऋग्वेद - मण्डल » 10; सूक्त » 144; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 2
पदार्थः -
(अयम्) एष पूर्वोक्त इन्द्रः-रेतोरूपो वीर्यपदार्थः (अस्मासु) अस्मन्निमित्तम् ‘निमित्तसप्तमी’ (काव्यः) कविभिर्मेधाविभिः कमनीयः “काव्यं कविभिर्मेधाविभिः कमनीयम्” [ऋ० ५।३९।५ दयानन्दः] यद्वा कविं मेधाविनं सम्पादयतीति मेधाविसम्पादकः “सम्पादिन्यर्थे ष्यञ् छान्दसः” (ऋभुः) आयुष्प्रकाशकस्तेजः-प्रकाशकः “ऋभुः-आयुष्प्रकाशकः” [ऋ० १।११०।७ दयानन्दः] (दास्वते वज्रः) “दसु उपक्षये” णिजन्तात् क्विप् दास् तद्वते रोगाय वज्रो वर्जयिता नाशकोऽस्ति (अयम्) एष हि (ऊर्ध्वकृशनं मदं बिभर्ति) ऊर्ध्वरूपं “कृशनं रूपनाम” [निघ० ३।७] हर्षं धारयति (ऋभुः-न कृत्व्यं मदम्) ऋभोः “सुपां सु...” [अष्टा० ७।१।३९] इति षष्ठीस्थाने सुः, मेधाविनो जनस्य यथा कर्त्तव्यो हर्षो भवेत् तथा ते करणयोग्यं हर्षं धारयति ॥२॥