ऋग्वेद - मण्डल 10/ सूक्त 148/ मन्त्र 2
ऋषिः - पृथुर्वैन्यः
देवता - इन्द्र:
छन्दः - आर्चीभुरिक्त्रिष्टुप्
स्वरः - धैवतः
ऋ॒ष्वस्त्वमि॑न्द्र शूर जा॒तो दासी॒र्विश॒: सूर्ये॑ण सह्याः । गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोम॑म् ॥
स्वर सहित पद पाठऋ॒ष्वः । त्वम् । इ॒न्द्र॒ । शू॒र॒ । जा॒तः । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ । गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । बि॒भृ॒मसि॑ । प्र॒ऽस्रव॑णे । न । सोम॑म् ॥
स्वर रहित मन्त्र
ऋष्वस्त्वमिन्द्र शूर जातो दासीर्विश: सूर्येण सह्याः । गुहा हितं गुह्यं गूळ्हमप्सु बिभृमसि प्रस्रवणे न सोमम् ॥
स्वर रहित पद पाठऋष्वः । त्वम् । इन्द्र । शूर । जातः । दासीः । विशः । सूर्येण । सह्याः । गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्ऽसु । बिभृमसि । प्रऽस्रवणे । न । सोमम् ॥ १०.१४८.२
ऋग्वेद - मण्डल » 10; सूक्त » 148; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 6; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 6; मन्त्र » 2
पदार्थः -
(शूर-इन्द्र) हे पराक्रमिन् ! परमात्मन् ! (त्वम्-ऋष्वः-जातः) त्वं महान् प्रसिद्धः (सूर्येण) सूर्येणेव त्वं प्रतापी भवसि (दासीः-विशः-सह्याः) तुभ्यमात्मानं दत्तवतीरुपासकप्रजाः-त्वया सह्याः-नासह्याः किन्तु प्रियाः “दासीः-दानशीलाः” [ऋ० ४।२८।४ दयानन्दः] (गुहा हितम्) बुद्धौ धृतम् “गुहा बुद्धौ” [ऋ० १।२३।१४ अत्राकारादेशः दयानन्दः] (गुह्यम्-अप्सु गूढम्) अतएव गुप्तं “प्राणेषु गूढम्” “प्राणा वा आपः” [ता० ९।९।४] (बिभृमसि) धारयामः (प्रस्रवणे न सोमम्) यथा स्रोतांसि जलं धृतं भवति तथा “सोमं जलम्” [ऋ० ५।३४।३ दयानन्दः] ॥२॥