ऋग्वेद - मण्डल 10/ सूक्त 149/ मन्त्र 1
ऋषिः - अर्चन्हैरण्यस्तुपः
देवता - सविता
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
स॒वि॒ता य॒न्त्रैः पृ॑थि॒वीम॑रम्णादस्कम्भ॒ने स॑वि॒ता द्याम॑दृंहत् । अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते॑ ब॒द्धं स॑वि॒ता स॑मु॒द्रम् ॥
स्वर सहित पद पाठस॒वि॒ता । य॒न्त्रैः । पृ॒थि॒वीम् । अ॒र॒म्णा॒त् । अ॒स्क॒म्भ॒ने । स॒वि॒ता । द्याम् । अ॒दृं॒ह॒त् । अश्व॑म्ऽइव । अ॒धु॒क्ष॒त् । धुनि॑म् । अ॒न्तरि॑क्षम् । अ॒तूर्ते॑ । ब॒द्धम् । स॒वि॒ता । स॒मु॒द्रम् ॥
स्वर रहित मन्त्र
सविता यन्त्रैः पृथिवीमरम्णादस्कम्भने सविता द्यामदृंहत् । अश्वमिवाधुक्षद्धुनिमन्तरिक्षमतूर्ते बद्धं सविता समुद्रम् ॥
स्वर रहित पद पाठसविता । यन्त्रैः । पृथिवीम् । अरम्णात् । अस्कम्भने । सविता । द्याम् । अदृंहत् । अश्वम्ऽइव । अधुक्षत् । धुनिम् । अन्तरिक्षम् । अतूर्ते । बद्धम् । सविता । समुद्रम् ॥ १०.१४९.१
ऋग्वेद - मण्डल » 10; सूक्त » 149; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 7; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 7; मन्त्र » 1
विषयः - अस्मिन् सूक्ते सूर्यं पृथिवीं परमात्मा धारयति मेघं च वर्षयति जीवन्मुक्तान् मोक्षं प्रेरयति, परमात्मनो भिन्नस्तदनुगामी तद्धर्मश्चेतनो जीवोऽस्तीत्येवमादयो विषयाः सन्ति।
पदार्थः -
(सविता) उत्पादयिता परमात्मा प्रेरयिता सूर्यो वा (यन्त्रैः पृथिवीम्-अस्कम्भने-अरम्णात्) नियन्त्रणसामर्थ्यैः पृथिवीं निरालम्बनेऽन्तरिक्षेऽरमयद्-अवलम्बयति सूत्रैः कन्दुकमिव (सविता द्याम्-अदृंहत) स एव परमात्मा सूर्यो वा द्युलोकं दृढमुदतानयदुत्तानयति-उपरि-तानयति (अतूर्ते-अन्तरिक्षम्) अच्छेद्ये सूक्ष्मेऽचलेऽन्तरिक्षे ‘सप्तम्यर्थे द्वितीया व्यत्ययेन’ (बद्धं समुद्रं धुनिम्) अवरुद्धं समुदितारं सम्यक् क्लेदयितारं मेघम् “धुनिं मेघम्” [निरु० १०।३२] (अश्वम्-इव-अधुक्षत्) अश्वमिव क्लेशयति कम्पयति भ्रमयति भ्रान्तं करोति वा यथाश्वारोही तद्वत् “धुक्ष धिक्ष सन्दीपनक्लेशनजीवनेषु” [भ्वादि०] यद्वा ‘धूञ्-कम्पने’ [स्वादि०] कुक् छान्दस आगमो धातोर्लुङि छान्दसः-क्सश्च ॥१॥