ऋग्वेद - मण्डल 10/ सूक्त 148/ मन्त्र 5
ऋषिः - पृथुर्वैन्यः
देवता - इन्द्र:
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
श्रु॒धी हव॑मिन्द्र शूर॒ पृथ्या॑ उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः । आ यस्ते॒ योनिं॑ घृ॒तव॑न्त॒मस्वा॑रू॒र्मिर्न निम्नैर्द्र॑वयन्त॒ वक्वा॑: ॥
स्वर सहित पद पाठश्रु॒धि । हव॑म् । इ॒न्द्र॒ । शू॒र॒ । पृथ्याः॑ । उ॒त । स्त॒व॒ते॒ । वे॒न्यस्य॑ । अ॒र्कैः । आ । यः । ते॒ । योनि॑म् । घृ॒तऽव॑न्तम् । अस्वाः॑ । ऊ॒र्मिः । न । नि॒म्नैः । द्र॒व॒य॒न्त॒ । वक्वाः॑ ॥
स्वर रहित मन्त्र
श्रुधी हवमिन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः । आ यस्ते योनिं घृतवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वा: ॥
स्वर रहित पद पाठश्रुधि । हवम् । इन्द्र । शूर । पृथ्याः । उत । स्तवते । वेन्यस्य । अर्कैः । आ । यः । ते । योनिम् । घृतऽवन्तम् । अस्वाः । ऊर्मिः । न । निम्नैः । द्रवयन्त । वक्वाः ॥ १०.१४८.५
ऋग्वेद - मण्डल » 10; सूक्त » 148; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 6; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 6; मन्त्र » 5
पदार्थः -
(शूर इन्द्र) हे पराक्रमिन् ! परमेश्वर ! (पृथ्याः-हवं श्रुधि) त्वं प्रथितायाः प्राणिप्रजायाः-आह्वानं शृणोषि ‘लडर्थे लोट् व्यत्ययेन’ (उत) अपि च (वेन्यस्य-अर्कैः स्तवसे) कमितुं योग्यस्य स्तोतुः “वेन्यस्य कमितुं योग्यस्य” [ऋ० २।२४।१० दयानन्दः] अर्चनैर्मन्त्रैः स्तूयसे ‘कर्मणि कर्तृ-प्रत्ययो व्यत्ययेन’ (यः-ते घृतवन्तं योनिम्-आ-अस्वाः) यस्तव तेजस्विनम् “तेजो घृतम्” [काठ० १०।१] मिश्रणयोनिं पदं स्वरूपं समन्तात् शब्दयति स्तौति “स्वृ शब्दे” तस्यापि शृणु तथा (वक्वाः-निम्नैः-ऊर्मिः न द्रवयन्त) ये वक्तारो गुणवक्तारः “वच धातोः” “अन्येभ्योऽपि दृश्यन्ते” [अष्टा० ३।२।७५] ‘इति वनिप् प्रत्ययः’ नम्रवचनैर्जलप्रवाहः-इव त्वामभिद्रवन्ति तेषां वचनानि खल्वपि शृणु ॥५॥