ऋग्वेद - मण्डल 10/ सूक्त 151/ मन्त्र 5
श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ । श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह न॑: ॥
स्वर सहित पद पाठश्र॒द्धाम् । प्रा॒तः । ह॒वा॒म॒हे॒ । श्र॒द्धाम् । म॒ध्य॑न्दि॑नम् । परि॑ । श्र॒द्धाम् । सूर्य॑स्य । नि॒ऽम्रुचि॑ । श्रद्धे॑ । श्रत् । धा॒प॒य॒ । इ॒ह । नः॒ ॥
स्वर रहित मन्त्र
श्रद्धां प्रातर्हवामहे श्रद्धां मध्यंदिनं परि । श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह न: ॥
स्वर रहित पद पाठश्रद्धाम् । प्रातः । हवामहे । श्रद्धाम् । मध्यन्दिनम् । परि । श्रद्धाम् । सूर्यस्य । निऽम्रुचि । श्रद्धे । श्रत् । धापय । इह । नः ॥ १०.१५१.५
ऋग्वेद - मण्डल » 10; सूक्त » 151; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 9; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 9; मन्त्र » 5
पदार्थः -
(प्रातः श्रद्धां हवामहे) प्रातःकाले यथावद्धारणां खल्वास्तिकतां परमात्मप्रीतिम्-आमन्त्रयामहे (मध्यन्दिनं परि श्रद्धाम्) दिनस्य मध्येऽपि परमात्मप्रीतिमामन्त्रयामहे (सूर्यस्य निम्रुचि श्रद्धाम्) सूर्यस्यास्तगमने “म्रुचु गत्यर्थः” [भ्वादि०] ‘नि पूर्वात् क्विप् निम्रुच् सप्तम्यां निम्रुचि’ परमात्मप्रीतिमामन्त्रयामहे (श्रद्धे नः-इह श्रद्धापय) हे श्रद्धे-आस्तिकभावने परमात्मप्रीते ! अस्मानस्मिन् जीवने श्रद्धामयान् कुरु ॥५॥