Loading...
ऋग्वेद मण्डल - 10 के सूक्त 153 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 153/ मन्त्र 1
    ऋषिः - इन्द्रमातरो देवजामयः देवता - इन्द्र: छन्दः - निचृद्गायत्री स्वरः - षड्जः

    ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते । भे॒जा॒नास॑: सु॒वीर्य॑म् ॥

    स्वर सहित पद पाठ

    ई॒ङ्खय॑न्तीः । अ॒प॒स्युवः॑ । इन्द्र॑म् । जा॒तम् । उप॑ । आ॒स॒ते॒ । भे॒जा॒नासः॑ । सु॒ऽवीर्य॑म् ॥


    स्वर रहित मन्त्र

    ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते । भेजानास: सुवीर्यम् ॥

    स्वर रहित पद पाठ

    ईङ्खयन्तीः । अपस्युवः । इन्द्रम् । जातम् । उप । आसते । भेजानासः । सुऽवीर्यम् ॥ १०.१५३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 153; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 11; मन्त्र » 1

    पदार्थः -
    (इन्द्रं सुवीर्यं जातम्) परमात्मानं राजानं वा शोभनबलोपेतं जातम् (ईङ्खयन्तीः) प्रेरयन्त्यः (अपस्युवः) आत्मनः कर्मेच्छन्त्यः कर्त्तव्यपरायणाः (भेजानासः) भजमानाः-सेवमानाः मानवप्रजाः “इकारो वर्णव्यत्ययेन” [ऋ० ४।२९।५ दयानन्दः] (उपासते) उपाश्रयन्ति ॥१॥

    इस भाष्य को एडिट करें
    Top