ऋग्वेद - मण्डल 10/ सूक्त 153/ मन्त्र 2
ऋषिः - इन्द्रमातरो देवजामयः
देवता - इन्द्र:
छन्दः - विराड्गायत्री
स्वरः - षड्जः
त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः । त्वं वृ॑ष॒न्वृषेद॑सि ॥
स्वर सहित पद पाठत्वम् । इ॒न्द्र॒ । बला॑त् । अधि॑ । सह॑सः । जा॒तः । ओज॑सः । त्वम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥
स्वर रहित मन्त्र
त्वमिन्द्र बलादधि सहसो जात ओजसः । त्वं वृषन्वृषेदसि ॥
स्वर रहित पद पाठत्वम् । इन्द्र । बलात् । अधि । सहसः । जातः । ओजसः । त्वम् । वृषन् । वृषा । इत् । असि ॥ १०.१५३.२
ऋग्वेद - मण्डल » 10; सूक्त » 153; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 11; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 11; मन्त्र » 2
पदार्थः -
(इन्द्र त्वम्) हे परमात्मन् ! राजन् वा ! त्वम् (बलात्) बाह्यबलात् (सहसः) मानसबलात्-साहसात् (ओजसः) आत्मिकबलात् (अधिजातः) अध्यक्षत्वे प्रसिद्धः (वृषन् वृषा-इत्-असि) हे बलवन् ! सुखवर्षक एवासि ॥२॥