ऋग्वेद - मण्डल 10/ सूक्त 153/ मन्त्र 4
ऋषिः - इन्द्रमातरो देवजामयः
देवता - इन्द्र:
छन्दः - विराड्गायत्री
स्वरः - षड्जः
त्वमि॑न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः । वज्रं॒ शिशा॑न॒ ओज॑सा ॥
स्वर सहित पद पाठत्वम् । इ॒न्द्र॒ । स॒ऽजोष॑सम् । अ॒र्कम् । बि॒भ॒र्षि॒ । बा॒ह्वोः । वज्र॑म् । शिशा॑नः । ओज॑सा ॥
स्वर रहित मन्त्र
त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः । वज्रं शिशान ओजसा ॥
स्वर रहित पद पाठत्वम् । इन्द्र । सऽजोषसम् । अर्कम् । बिभर्षि । बाह्वोः । वज्रम् । शिशानः । ओजसा ॥ १०.१५३.४
ऋग्वेद - मण्डल » 10; सूक्त » 153; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 11; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 11; मन्त्र » 4
पदार्थः -
(इन्द्र) हे परमात्मन् राजन् ! वा (त्वम्) त्वम् (सजोषसम्-अर्कं वज्रं शिशानः) सह प्रीयमाणं स्तुत्यं विरोधिनः प्राणस्य वर्जकं शस्त्रं तीक्ष्णी-कुर्वन् (ओजसा बाह्वोः-बिभर्षि) आत्मबलेन बाह्वोर्बाहुवन्नाशकपराक्रमगुणयोः-भुजयोर्वा धारयसि ॥४॥