Loading...
ऋग्वेद मण्डल - 10 के सूक्त 153 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 153/ मन्त्र 5
    ऋषिः - इन्द्रमातरो देवजामयः देवता - इन्द्र: छन्दः - विराड्गायत्री स्वरः - षड्जः

    त्वमि॑न्द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा । स विश्वा॒ भुव॒ आभ॑वः ॥

    स्वर सहित पद पाठ

    त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । विश्वा॑ । जा॒तानि॑ । ओज॑सा । सः । विश्वा॑ । भुवः॑ । आ । अ॒भ॒वः॒ ॥


    स्वर रहित मन्त्र

    त्वमिन्द्राभिभूरसि विश्वा जातान्योजसा । स विश्वा भुव आभवः ॥

    स्वर रहित पद पाठ

    त्वम् । इन्द्र । अभिऽभूः । असि । विश्वा । जातानि । ओजसा । सः । विश्वा । भुवः । आ । अभवः ॥ १०.१५३.५

    ऋग्वेद - मण्डल » 10; सूक्त » 153; मन्त्र » 5
    अष्टक » 8; अध्याय » 8; वर्ग » 11; मन्त्र » 5

    पदार्थः -
    (इन्द्र त्वम्) हे परमेश्वर ! राजन् वा ! त्वम् (ओजसा विश्वा जातानि-अभिभूः-असि) आत्मबलेन सर्वाणि प्रसिद्धिं गतानि वस्तूनि खल्वभिभविता-भवसि (सः-विश्वाः-भुवः-आभवः) स त्वं सर्वाः-लोक-भूमीः-भवित्रीः शत्रुसेनाः-वा स्वाधीने करोषि कुरु वा ॥५॥

    इस भाष्य को एडिट करें
    Top