Loading...
ऋग्वेद मण्डल - 10 के सूक्त 154 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 154/ मन्त्र 2
    ऋषिः - यमी देवता - भाववृत्तम् छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः । तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

    स्वर सहित पद पाठ

    तप॑सा । ये । अ॒ना॒धृ॒ष्याः । तप॑सा । ये । स्वः॑ । य॒युः । तपः॑ । ये । च॒क्रि॒रे । महः॑ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥


    स्वर रहित मन्त्र

    तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः । तपो ये चक्रिरे महस्ताँश्चिदेवापि गच्छतात् ॥

    स्वर रहित पद पाठ

    तपसा । ये । अनाधृष्याः । तपसा । ये । स्वः । ययुः । तपः । ये । चक्रिरे । महः । तान् । चित् । एव । अपि । गच्छतात् ॥ १०.१५४.२

    ऋग्वेद - मण्डल » 10; सूक्त » 154; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 12; मन्त्र » 2

    पदार्थः -
    (ये तपसा-अनाधृष्याः) ये महानुभावास्तपोबलेन महता ब्रह्मचर्येण “ब्रह्मचर्येण तपसा” कामवासनया-अधृष्या न चालयितुं शक्याः (ये तपसा स्वः-ययुः) ये महानुभावास्तेनैव तपसा सुखविशेषं यान्ति (ये महः-तपः-चक्रिरे) ये महत्तपः-कुर्वन्ति (तान्-चित्-एव-अपि गच्छतात्) तान् चिदेवापि गच्छ तेभ्यो ब्रह्मचर्यं तपोधारणाय ॥२॥

    इस भाष्य को एडिट करें
    Top