Loading...
ऋग्वेद मण्डल - 10 के सूक्त 154 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 154/ मन्त्र 3
    ऋषिः - यमी देवता - भाववृत्तम् छन्दः - अनुष्टुप् स्वरः - गान्धारः

    ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यज॑: । ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

    स्वर सहित पद पाठ

    ये । युध्य॑न्ते । प्र॒ऽधने॑षु । शूरा॑सः । ये । त॒नू॒ऽत्यजः॑ । ये । वा॒ । स॒हस्र॑ऽदक्षिणाः । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥


    स्वर रहित मन्त्र

    ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यज: । ये वा सहस्रदक्षिणास्ताँश्चिदेवापि गच्छतात् ॥

    स्वर रहित पद पाठ

    ये । युध्यन्ते । प्रऽधनेषु । शूरासः । ये । तनूऽत्यजः । ये । वा । सहस्रऽदक्षिणाः । तान् । चित् । एव । अपि । गच्छतात् ॥ १०.१५४.३

    ऋग्वेद - मण्डल » 10; सूक्त » 154; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 12; मन्त्र » 3

    पदार्थः -
    (ये शूरासः) ये शूराः क्षत्रियाः (ये तनूत्यजः) ये शरीर-त्यागिनः (प्रधनेषु युध्यन्ते) संग्रामेषु प्रधने संग्रामनाम [निघ० २।१७] युद्धं कुर्वन्ति (ये वा) ये च (सहस्रदक्षिणाः) गोधनदक्षिणादातारो वैश्याः (तान् चित्-एव) तानपि-हि (अपि गच्छतात्) क्षत्रियत्वं वैश्यत्वञ्च ग्रहीतुं खलु गच्छ-प्राप्तो भव ॥३॥

    इस भाष्य को एडिट करें
    Top