Loading...
ऋग्वेद मण्डल - 10 के सूक्त 154 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 154/ मन्त्र 4
    ऋषिः - यमी देवता - भाववृत्तम् छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा॑न ऋता॒वृध॑: । पि॒तॄन्तप॑स्वतो यम॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

    स्वर सहित पद पाठ

    ये । चि॒त् । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । ऋ॒तऽवा॑नः । ऋ॒त॒ऽवृधः॑ । पि॒तॄन् । तप॑स्वतः । य॒म॒ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥


    स्वर रहित मन्त्र

    ये चित्पूर्व ऋतसाप ऋतावान ऋतावृध: । पितॄन्तपस्वतो यम ताँश्चिदेवापि गच्छतात् ॥

    स्वर रहित पद पाठ

    ये । चित् । पूर्वे । ऋतऽसापः । ऋतऽवानः । ऋतऽवृधः । पितॄन् । तपस्वतः । यम । तान् । चित् । एव । अपि । गच्छतात् ॥ १०.१५४.४

    ऋग्वेद - मण्डल » 10; सूक्त » 154; मन्त्र » 4
    अष्टक » 8; अध्याय » 8; वर्ग » 12; मन्त्र » 4

    पदार्थः -
    (ये चित् पूर्वे) ये पूर्वे महाभागाः (ऋतसापः) अमृतस्पर्शिनः “ऋतममृतमित्याह” [जे० २।१६०] “सपः सपतेः स्पृशतिकर्मणः” [निरु० ५।१६] (ऋतवानः) अमृतवन्तः “छन्दसीवनिपौ वार्तिकेन मत्वर्थे वनिप्” (ऋतावृधः) अमृतवर्धकाः-जीवन्मुक्ताः (तपस्वतः पितॄन्) तपस्विनः पालकान् (यम तान् चित्-एव-अपि गच्छतात्) हे ब्रह्मचारिन् ! तानपि खलु ह्यपि गच्छ ॥४॥

    इस भाष्य को एडिट करें
    Top