Loading...
ऋग्वेद मण्डल - 10 के सूक्त 155 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 155/ मन्त्र 3
    ऋषिः - शिरिम्बिठो भारद्वाजः देवता - ब्रह्मणस्पतिः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धो॑: पा॒रे अ॑पूरु॒षम् । तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ॥

    स्वर सहित पद पाठ

    अ॒दः । यत् । दारु॑ । प्लव॑ते । सिन्धोः॑ । पा॒रे । अ॒पु॒रु॒षम् । तत् । आ । र॒भ॒स्व॒ । दु॒र्ह॒नो॒ इति॑ दुःऽहनो । तेन॑ । ग॒च्छ॒ । प॒रः॒ऽत॒रम् ॥


    स्वर रहित मन्त्र

    अदो यद्दारु प्लवते सिन्धो: पारे अपूरुषम् । तदा रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥

    स्वर रहित पद पाठ

    अदः । यत् । दारु । प्लवते । सिन्धोः । पारे । अपुरुषम् । तत् । आ । रभस्व । दुर्हनो इति दुःऽहनो । तेन । गच्छ । परःऽतरम् ॥ १०.१५५.३

    ऋग्वेद - मण्डल » 10; सूक्त » 155; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 13; मन्त्र » 3

    पदार्थः -
    (सिन्धोः-पारे) समुद्रस्य पारनिमित्तं पारकरणाय (यत्-अदः-अपूरुषं दारु प्लवते) यत् तत् पुरुषरहितं स्वयं यन्त्रचालितं दारुमयं नौकारूपं पोतमातरति (दुर्हणो) हे दुर्हननीय ! अहिंस्य  ब्रह्मणस्पते विद्वन् ‘दुःपूर्वकहनधातोः-उप्रत्ययः-औणादिकः’ (तत्-आरभस्व) तदा-युङ्क्ष्वारोह (तेन परस्तरं गच्छ) तेन अतिदूरं देशं गच्छन्नन्नमानेतुमित्यर्थः ॥३॥

    इस भाष्य को एडिट करें
    Top