Loading...
ऋग्वेद मण्डल - 10 के सूक्त 155 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 155/ मन्त्र 2
    ऋषिः - शिरिम्बिठो भारद्वाजः देवता - ब्रह्मणस्पतिः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    च॒त्तो इ॒तश्च॒त्तामुत॒: सर्वा॑ भ्रू॒णान्या॒रुषी॑ । अ॒रा॒य्यं॑ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ॥

    स्वर सहित पद पाठ

    च॒त्तो इति॑ । इ॒तः । च॒त्ता । अ॒मुतः॑ । सर्वा॑ । भ्रू॒णानि॑ । आ॒रुषी॑ । अ॒रा॒य्य॑म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । तीक्ष्ण॑ऽशृङ्ग । उ॒त्ऽऋ॒षन् । इ॒हि॒ ॥


    स्वर रहित मन्त्र

    चत्तो इतश्चत्तामुत: सर्वा भ्रूणान्यारुषी । अराय्यं ब्रह्मणस्पते तीक्ष्णशृण्गोदृषन्निहि ॥

    स्वर रहित पद पाठ

    चत्तो इति । इतः । चत्ता । अमुतः । सर्वा । भ्रूणानि । आरुषी । अराय्यम् । ब्रह्मणः । पते । तीक्ष्णऽशृङ्ग । उत्ऽऋषन् । इहि ॥ १०.१५५.२

    ऋग्वेद - मण्डल » 10; सूक्त » 155; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 13; मन्त्र » 2

    पदार्थः -
    (इतः-चत्ता-उ-अमुतः-चत्ता) अस्मात् स्थानान्नाशिता हि दूरस्थानादपि नाशिता भवतु ‘चते नाशने’ वैदिकधातुः “चातयति नाशनकर्मा” [निरु० ६।३०] (सर्वा भ्रूणानि-आरुषी) सर्वाणि जातानि-ओषधिगर्भाणि बीजानि यानि सन्ति तेषां समन्तात्-सर्वथा हिंसिकाऽसि “रुष हिंसायाम्” [भ्वादि०] (ब्रह्मणस्पते) हे ब्रह्माण्डस्य स्वामिन् परमात्मन् ! यद्वा ब्रह्मणो मेघाच्छन्नाकाशस्य ज्ञानस्य स्वामिन् विद्वन् ! त्वम् (तीक्ष्णशृङ्ग) तीक्ष्ण-तेजस्क ! “शृङ्गाणि ज्वलतो नामधेयम्” [निघ० १।१७] (अराय्यम्-उदृषन्-इहि) तामदात्रीं दूरमुद्गमयन् प्राप्नुहि ॥२॥

    इस भाष्य को एडिट करें
    Top