ऋग्वेद - मण्डल 10/ सूक्त 163/ मन्त्र 1
ऋषिः - विवृहा काश्यपः
देवता - यक्ष्मघ्नम्
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ । यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥
स्वर सहित पद पाठअ॒क्षीभ्या॑म् । ते॒ । नासि॑काभ्याम् । कर्णा॑भ्याम् । छुबु॑कात् । अधि॑ । यक्ष्म॑म् । शी॒र्ष॒ण्य॑म् । म॒स्तिष्का॑त् । जि॒ह्वायाः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥
स्वर रहित मन्त्र
अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि । यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥
स्वर रहित पद पाठअक्षीभ्याम् । ते । नासिकाभ्याम् । कर्णाभ्याम् । छुबुकात् । अधि । यक्ष्मम् । शीर्षण्यम् । मस्तिष्कात् । जिह्वायाः । वि । वृहामि । ते ॥ १०.१६३.१
ऋग्वेद - मण्डल » 10; सूक्त » 163; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 21; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 21; मन्त्र » 1
विषयः - अत्र सूक्ते शरीरस्य भिन्नभिन्नाङ्गानां रोगस्य चिकित्साकरणं विधीयते, कथं कथं च द्रष्ट्रव्यमिति।
पदार्थः -
(ते) हे रोगिन् ! तव (अक्षीभ्याम्) नेत्राभ्याम् (नासिकाभ्याम्) नासिकाछिद्राभ्याम् (कर्णाभ्याम्) श्रोत्राभ्याम् (छुबुकात्-अधि) मुखादपि “कः सप्त खानि विततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्” [अथर्व० १०।२।६] “छुबुकं मुखम्” [वैद्यक-शब्दसिन्धुः] (मस्तिष्कात्) मस्तकस्याभ्यन्तरात् (जिह्वायाः) रसनायाः (ते) तव (शीर्षण्यं यक्ष्मं विवृहामि) शीर्षगतं रोगं पृथक् करोमि ॥१॥